________________
३ पा. २ आ. शब्दकौस्तुमः ।
४८९ उपरिगमनरूपएव च व्यापारविशेषो रुहेरर्थो न तु न्यग्भावनमात्रम् । भूमिष्ठे वृक्षस्य शाखां हस्ताभ्यामवनमयत्यपि आरोहतीत्यप्रयोगात् । अत एव यद्धितुपरं छन्दसीत्यत्र भाष्यं रुहिर्गत्यर्थ इति । अत एव चाणौ कर्तुंर्णी कर्मत्त्वम् । पचिच्छिद्योस्तु विक्लित्तिद्विधाभवनरूपो विशेषः कर्मणि दृष्टः तदुद्देशेनैव च कारकव्यापार इति महद्वैषम्यम् । एवञ्चारुह्यते ह. स्तीति कर्मवद्भावं प्रदर्शयन्तो भाष्यन्यायविरोधादुपेक्ष्या इति कैयटः । एतेन, अधिगच्छति शास्त्रार्थः स्मरति श्रद्दधाति च । यत्कृपावशतस्तस्मै नमोस्तु गुरवे सदोति प्रयोगो व्याख्यातः । न चैवं क्रियतइति न स्यादिति वाच्यम् । यत्नार्थतावादिनामेतदोषप्रसङ्गेपि भूवादिसूत्रस्थभाष्यानुसारेण करोतेरभूतपादुर्भावार्थतामभ्युपगच्छतामस्माकं सर्वसामञ्जस्यात् । एवञ्च कस्थभावक्रियेषु कर्मवद्भावाप्राप्तेविध्यर्थमिदं मूत्रमिति स्थित भाष्ये।लावयते स्वयमेवेत्यादौ तु कातिदेशपक्षे परत्वाकर्मवत्कमणेत्येवात्मनेपदम् । शास्त्रातिदेशे तु भावकर्मणोरित्यतदपेक्षया परत्वाण्णेरणादिसूत्रेणेत्यवधेयम् । यदि त्वणौ ये कर्तृकर्मणी तद्भिन्नकर्मनिवृत्तिर्भाष्यकृतोभिप्रेता स्यात्तर्हि सकर्मकाणां मध्ये तत्सूत्रोदाहरणतापत्तौ कर्मस्थक्रिया अप्युदाहरणं स्युः। न हि तत्रातिदेशः सुलभः । कर्मवदकर्मकाणामिति वक्ष्यमाणत्वात् । तथा नियमार्थत्वपराणां यक्चिणोः प्रतिषेधार्थ वित्यादिभाष्यवातिकग्रन्थानामप्यसामञ्जस्यं स्यादिति दिक् । तस्मादिहास्मदुक्तमेव वाक्यार्थत्रयं मुनित्रयसंमतम् । जयादित्यन्यासकारहरदत्तकैयटादिसकलग्रन्थकाराणामिह महानेव पूर्वापरविरोधो विपश्चिद्भिरुद्धर्तव्यः । अस्मदुक्तिस्तु मात्सर्यमुत्सार्य परिभावनीयेत्यलं बहुना । यन्तु करेणुरारोहयते निषादिनमिति माघे