________________
१ पा. ९. आ. शब्दकौस्तुभः । ३४१ ऊं वारयितुं पदान्तग्रहणं कर्त्तव्यमिति वार्तिककृता वक्ष्यमाणं विरुध्येत । क्रियमाणेपि पदान्तग्रहणे दोषतादवस्थ्यादिति चेन । तत्रान्तग्रहणमात्रं कृत्वा वाक्यस्य टेरित्यतो वाक्यग्रहणमनुवय वाक्यान्तस्येति व्याख्यानसम्भवात् । तदेवं समासे चरमभागस्य पदसंज्ञा यजादौ कापि नास्तीति स्थितम् । क्व चिनिषेधारक चित्तु भत्त्वेन बाधादिति विशेषः । नन्वेवं दूरान्मुक्तमित्यादावलुङ् न स्यात् । होता पोतारावित्यत्रानङ् न स्यात् । उत्तरपदे तद्विधानादिति चेन्न । उत्तरपदशब्दस्य समासोत्तरावयवे रूढतया पदसंज्ञाविरहेपि तत्मवृत्तेः । सर्वान्तएव चेयं रूढिः । तेन होतृपोतनेष्टोद्गातार इत्यत्र मध्यमानामुत्तरपदत्वाभावात्ततः पूर्वस्यानङ् नेति दिक् । नन्वेवं दधिसेचौ दधिसेच इत्यत्र सात्पदाद्योरिति षत्त्वनिषेधो न स्यादिति चेन्न । पदादादिः पदादिस्तस्य षत्त्वं नेति व्याख्यानात् । न चैवं रामेषु हरिष्वित्यत्रापि निषेधः स्यादिति वाच्यम् । स्वादाविति या पदसंज्ञा तामुपजीव्य पदादेति निषेधाप्रवृत्तेः । एतच्च सा. प्रतिषेधेन ज्ञाप्यते । उक्तं च पदादादेर्नेत्येव व्याख्यानं न तु पदस्यादेरिति । तथा सति गतिकारकोपपदानामिति सुबुत्पत्तेः प्रागेव समासे दधिसे गित्यादौ षत्वस्य दुरितापत्तेः । नन्वेवमपि बहुसेचौ बहुसेच इत्यत्र षत्वं स्यादेव । बहुचो ऽपदत्त्वेन पत्वप्रतिषेधाप्राप्तरिति चेत् । सत्यम् । वचनमेवेह कर्त्तव्यम् । बहुपूर्वस्य नेति । अत्रायं सूत्रन्यासः । सातेः सः, षत्वं न स्यात् । ततः बहुच्पदाभ्याम् । आभ्यामुत्तरस्य सस्य षत्वं न स्यात् । आदिग्रहणं न कर्त्तव्यम् । तस्मादित्युत्तरस्येत्येव सिद्धेः। तदिदं बहुग्रहणमादिग्रहणेन निमातव्यमिति । वार्तिके तूतरपदत्वे चापदादिविधाविति वचनेनैव परमवाचेत्यादि साधि