________________
शब्दकौस्तुमः ।
[ १ अ० वर्णशाकल्यस्य स्वश्चेत्येते विषयः प्रसज्येरन् । न च भसंज्ञया प्रसंज्ञाया बाधः । भिन्नावधिकत्वात् । भसंज्ञा हि समस्तस्य प्राप्ता पदसंज्ञा तूत्तरखण्डस्य । अत्र भाष्यम् । भसंज्ञासूत्रे सुप्तिङन्तमिति सूत्रात्सुबन्तमित्यनुवर्त्तनीयम् । तदयं सूत्रार्थः । यजादौ सर्वनामस्थाने परे यस्मात्प्रत्ययविधिस्तथाभूतः पूर्वः समुदायो भसंज्ञो भवति । तदवयवभूतं सुबन्तं यद्यस्ति तर्हि तदपि भसंज्ञं स्यात् यजादावनन्तर इति । इह च समुदायस्य भसंज्ञा प्रधानशिष्टा । अवयवस्य त्वन्वाचयशिष्टा कर्तुः क्यङ्सलोपश्चेतिवत् । तेन राज्ञ इत्यादौ सुबन्तावयवाभावेपि भवति, सुबन्तावयवसत्वे तु तस्य समुदायस्य चेत्युभयोरपि भवतीति विवेकः। नन्वेवमपि परमवाचौ परमवाच इत्यादौ भत्वाभावात्पदकार्य स्यादेवेति चेन्न । तत्र भत्वाभावेप्य सर्वनामस्थानइति पदसंज्ञानिषेधात् । स्वादिष्वसर्वनामस्थानइत्यत्रापि हि सुबन्तमित्यनुवर्तते । प्रसज्यप्रतिषेधश्चायम् । तत्सामर्थ्यादनन्तरस्य विधिति न्यायो नाश्रीयते । तदयमर्थः । सर्वनामस्थाने परतः पूर्वः समुदायः पदं न स्यात् । तदवयवभूतं सुबन्तं च पदं न स्यादिति । तत्र समुदायस्य स्वादिष्विति प्राप्ता अवयवस्य तु सुबन्तमिति प्राप्ता पदसंज्ञानेन निषिद्धेति परमवाचावित्यादि सिद्धम् । नन्वेवं सुवाक् सुराजेत्यादौ कुत्वादि न स्यात् । सावपि समृदायस्यावयवस्य च प्राप्तयोर्द्वयोरपि पदसंज्ञयोनिषेधादिति चेन्न । असर्वनामस्थान इत्यत्रोत्तरसूत्राद्यचीत्यपकृष्य य जादौ सर्वनामस्थाने उभयविधपदसंज्ञानिषेधात् । सौ तु द्विविधा - पि पदसंज्ञा भवत्येव । नन्वेवं श्रूयमाणे सौ पूर्वस्य पदसंज्ञा स्यादिति चेत् । इष्टापत्तेः । नन्वेवमेचो ऽप्रगृह्यस्यादूराद्धूतेपूर्वस्यार्द्धस्यादुत्तरस्येदुताविति सूत्रे भद्रङ्कोष गौरित्यत्रातिप्रस