________________
१७८ शब्दकौस्तुभः। [१ अ. सुपि प्रकृतिभागस्य संज्ञासिद्धये तु कर्त्तव्यमेवार्थग्रहणमित्यर्थः।ननु सोमो गौरीत्यादौ विभक्तिर्न लुप्यते किन्तु धीती मतीत्यादाविव पूर्वसवर्णे कृते ऽकः सवर्णइति दीर्घएकादेशे तस्यादिवद्भावात्ससमीग्रहणादस्त्येव सप्तमीत्याशंक्याह । पूर्वस्येति । आडाम्भावइति । एकादेशं बाधित्वा परत्वादाङ्गत्वाच्चाऽऽहामौ स्यातामित्यर्थः । तस्माल्लुगेवेति स्थितेथग्रहणं कर्त्तव्यमेवेति भावः । नन्वर्थग्रहणं मास्तु वचनसामर्थ्याच्च संज्ञाविधावपि तदन्तविधिभविष्यतीत्याशंक्याह। वचनादिति । यत्र दीर्घत्वं तत्रैव वचनात्स्यात् हतिं न शुष्कं सरसी शयानामिति यथा । अत्र हि सरश्शब्दात्परस्य सप्तम्येकवचनस्येयाडियाजीकाराणामुपसंख्यानमितीकारादेशे सप्तमी श्रूयते । तथा च सोमो गौरीत्यादौ न स्यादेवेत्यर्थः । एतदूषयति । तत्रापीति । तत्रापि सप्तम्या लुगेव न त्वीकारः । यदि सरसीशब्दोऽपि वर्तते । असन्दिग्धे सन्दिग्धवचनमेतच्छास्त्राणि चेत्प्रमाणं स्युरिति यथा। अस्ति हि सरसीशब्दो दक्षिणापथे हि महान्ति सरांसि सरस्य इत्युच्यन्ते इति भगवदुक्तेः कासारः सरसी सर इत्यमरकोशाच्च । तथा च सरसीः परिशीलितुं मयेत्यादि प्रयोगोपि दृश्यते । एवञ्च सरसीशब्दोपि लुप्तविभक्तिक एवेति वचनात्तदन्तविधिरिति स्थितम् । ननूक्तरीत्यास्तु सरसीशब्दः, सरशब्दोपि सान्तो निर्विवाद एव । तथा च सान्तादेवेकारादेशोयमस्तु । एवं हि सति संज्ञाविधौ सापकात्त्यक्तस्य तदन्तग्रहणस्य पुनराश्रयणं न कर्त्तव्यं भवतीति चेन्न । तथा सतीकारस्य सुप्त्वेनानुदात्ततया सरःशब्दस्य च सृधातोरसुनि व्युत्पादितस्य नित्स्वरेण सरसीति पदमायुदात्तं प्रसज्येत । गौरादिषु पिप्पल्यादयश्चेति पाठपिप्पल्यायन्तःपातिनः सरःशब्दान्छीषात्वन्तोदात्तमिष्यते । तथैव वेदे.