________________
१ पा. ५ आ.
शब्दकौस्तुभः ।
१७९
पाठात् । एवन्तर्हि प्रगृह्य संज्ञाप्रकरणे प्रत्ययलक्षणं नास्तीति ज्ञापनायेदमर्थग्रहणमस्तु । एवञ्चेदेद्विवचनमिति सूत्रे ईदूदेदन्तं द्विवचनान्तमिति पक्षईदूदेदन्तं यद् द्विवचनं तदन्तमिति पक्षश्च समर्थितो भवति । तत्र हि कुमाय्योरगारं कुमार्य्यगारम् । अशुक्ले शुक्ले सम्पद्येतां शुक्ल्यास्तां वस्त्रेइत्यत्रातिव्याप्तिरिति दोषः । स च प्रत्ययलक्षणविरहादेवोद्धृत इत्याह । ज्ञापकमिति । प्रगृह्यसंज्ञाप्रकरणे प्रत्ययलक्षणाभावस्येति शेषः । क्वेदं ज्ञापनमुपयुज्यते, तदाह । तदन्तत्वइति । तदन्तगर्भे पक्षद्वयेपीत्यर्थः । ननु संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेरभावादेव तदन्तपक्षस्तत्र न स्थित इत्यपरितोषादाह । मावेति । वाप्यश्व इत्यादौ मा भूदित्यर्थः । अत्रेदमवधेयम् | अवितृस्तृतन्त्रिभ्य ईरिति सूत्रादीरि - त्यनुवर्त्तमाने यापोः किद्वे च वातप्रमीरिति सूत्राभ्यां शब्दत्रयं व्युत्पादितम् । यान्त्यनेनेति ययीमुक्तिमार्गः । पिवति रसान्पातवा लोकमिति पपीः सूर्यः । वातं प्रमिमीते सम्मुखधावना। दिति वातप्रमीः निःशृङ्गो मृगाकृतिर्वातमृगनामा पशुविशेषः । एभ्यस्त्रिभ्योपि ङौ सवर्णदीर्घात् पपी ययी वातप्रमीति रूपं निर्विवादम् । तथा चेह श्रूयमाणस्येकारस्य सप्तमीत्वात्तत्रापि सरसी यदित्यसङ्गतम् । ईकारस्य श्रूयमाणस्यासम्भवात् । सामर्थ्यात्तदन्तविधिर्भविष्यतीत्यस्यार्थः । तस्मादूकारांशे सामर्थ्यातदन्तविधौ लब्धे सोमो गौरीत्यादावपि भविष्यतीत्याशयः । यी आसक्त इत्यादौ तु भाव्यमेव प्रकृतिभावेन । न चायं योगश्छान्दसस्तथाविधानामेवोदाहरणानां दत्तत्वादिति वाच्यम् । मुनित्रयोक्ति विनास्मदिच्छया छान्दसत्वकल्पने ऽतिप्रसङ्गात् । लोके प्रगृह्यत्वं न भवतीत्यस्मिन्नर्थे प्रमाणानुपलम्भाच्च । अप्रतिषिद्धमनुमतं भवतीतिन्यायेन लोके ययी पपी वामीत्ये
I