SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १ पा. ५ आ. शब्दकौस्तुभः । स्त्येव तत्कथमर्थग्रहणे कृतेपीष्टसिद्धिरिति चेत् । इत्थजहत्स्वार्थावृत्तिरिति पक्षे पदे वर्णवद्वत्तौ वर्तिपदानामानर्थक्यादीदन्तमिहानर्थकं न तु सप्तम्यर्थवृत्तीति स्पष्टमेव । अजहत्स्वार्थावृत्तिरिति पक्षेपि उपसर्जनपदं न स्वार्थमात्रे पर्यवस्यति किन्तु तत्संसृष्टे प्रधानार्थे । अर्थग्रहणसामर्थ्याच्च यावानर्थः ससम्याभिधीयते आधेयासंसृष्टो निष्कृष्टाधिकरणरूपस्तावन्मात्रस्येह ग्रहणमिति वृत्तिप्रविष्टेन भविष्यति । यद्यपि वाक्यवसमासेपि लुप्तसप्तमीबलेनाधिकरणमात्रबोधः पश्चाद्वाक्यार्थतया संसृष्टवोध इति वक्तुं शक्यते । तथापि सिद्धान्ते तावत्समर्थः पदविधिरिति परिभाषानुरोधात् समासस्थले एकार्थीभावएव सामर्थं न तु व्यपेक्षा । अत एवोपसर्जने विशेषणान्वयो न भवति शक्यैकदेशत्वादिति द्वितीये वक्ष्यते । मी. मांसकादीनामपि निषादस्थपतिन्यायेन पूर्वपदार्थसम्बन्धिान लक्षणाभ्युपगमायुक्तैवार्थग्रहणेन वाप्यश्वनधातिप्रभूतात्तिः । आतिबलाका । शरारिरातिराटिश्च बलाका बिसकण्टिकेत्यमरः । आद्यास्त्रयोपि स्त्रीलिङ्गाः बलाकासाहचर्यादिति के चित् । वस्तुतस्तु शरार्यादयस्त्रयः पक्षिविशेषवाचका न तु बलाकापर्यायाः। अतो बलाकासाहचर्यमकिश्चित्करं स्त्रीत्वम्परमस्त्येव । रत्नकोशे स्त्रीलिङ्गकाण्डे, आटिः शरारिवरटीत्युक्तेः । आतेरपि तत्साहच. यात्।तपरकरणमसन्देहार्थमिति वृत्तिः। अत्र वार्चिकम् । ईदूतौ सप्तमीत्येव लुप्तेर्थग्रहणाद्भवेत् । पूर्वस्य चेत्सवर्णो सावाडाम्भावः प्रसज्यते ॥ वचनाद्यत्र दीर्घत्वं तत्रापि सरसी यदि । ज्ञापकं स्यात्तदन्तत्वे मा वा पूर्वपदस्य भूत् ॥ अस्यार्थः। ईदूतौ सप्तमीत्येवास्तु नार्थीर्थग्रहणेन । अत्रोत्तरमाह। लुप्तइति । संज्ञाविधी प्रत्ययग्रहणेतदन्तविधेरभावात् । सप्तम्या एव संज्ञा स्यात् लुप्तेपि
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy