SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १ पा. ४ आ. शब्दकौस्तुभः। १३९ च्यते । क्विलुगुपधात्वचङ्परनि सकुत्वेषूपसंख्यानमितितावद्वार्तिकशरीरम् । तत्र क्वीत्यंशो यद्यपि द्वेधा व्याख्यास्यते । क्वौ लुप्तं न स्थानिवदिति । क्वौ विधिम्प्रति न स्थानिवदिति च। देवयतेः क्विपि दयूरित्यादेरन्यतरव्याख्यानाश्रयणेन सि. द्धावपि सखीयतेः सखीरित्यस्याद्यव्याख्यानं विना असिद्धेः लवमाचक्षाणो लौरित्यस्य द्वितीयव्याख्यानं विना ऽसिद्धेश्च । तथापि क्वौ विधि प्रतीति द्वितीयव्याख्यानामेव सार्वत्रिकम् । क्वौ लुप्तमिति तु क्वाचित्कम् । ख्यत्यादित्यत्र मपर्यन्तस्यत्यत्र च भाष्यादावाश्रितं न तु सार्वत्रिकम् । अत्र चे ग्रहणप्रत्याख्यानपरमत्रत्यभाष्यमेव प्रमाणं कथमन्यथा पिपठीषीत्यादौ दीर्घस्येष्टत्वे सूत्ररीत्या च तल्लाभे इड्ग्रहणं प्रत्याचक्षीत । तस्मात्पिपठिषि ब्राह्मणकुलानीत्येव रूपं भवतीति स्थितम् ।। हलोनन्तराः संयोगः ॥ अज्भिरव्यवाहिता हलः संयोगसंज्ञा स्युः । संज्ञानदेशाः संयोगान्तस्ये त्येवमादयः । इहान्तरशब्देन छिद्रवाचिना बहुव्रीहौ निश्छिद्राइत्यर्थलाभादवग्रहे संज्ञया न भाव्यम् । आधेयप्रधानेनान्तरेत्यव्ययेन सह बहुवीही वाधेयनिषेधप्रतीतरवग्रहेपि भाव्यमेव संज्ञया । न हि तत्रान्तरा मध्ये किञ्चिदस्ति किं तु मध्यमानं वर्तते । मात्रा इस्वस्तावदवग्रहान्तरमिति प्रातिशाख्यबलेन तत्र मात्राकालावसानाभ्युपगमात् । यत्तु प्रातिशाख्यान्तर "मद्धर्मात्रोवग्रह" इति, तत्तु सर्वत्र संहितायामर्द्धमात्राकालस्य सत्वात्ततोतिरिक्तोद्धमात्राकालोवग्रहस्तीत्येवंपरमतः प्रातिशाख्ययोरविरोधः । तदिह कतरः पक्षो ग्राह्य इति चेत् । उभयथाप्यदोष इति भाष्यकाराः। नन्वप्स्वित्यादौ सत्यां संयोगसंज्ञायां संयोगे गुर्विति गुरुत्वाद् गुरोरनृत इति प्लुतेन भा
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy