________________
१३८
शब्दकौस्तुभः । [१ अ. दौ । न चायम्बाहुलकेन समाधेयः । तथा सति निषेधसूत्रानारम्भस्यैव लाघवेनोचितत्वात् । तथेटोपि ग्रहणं व्यर्थम् । आ
धातुकस्येडित्यत्र हि नेट् वशि कृतीति सूत्रादिग्रहणमनुवर्तते । तच्चेटो विकाराभावार्थम् । इट् इडेव न तु विकृत इति व्याख्यानात् । ततो लघूपधगुणाभावात्सिद्धं कणिता श्वो रणिताश्व इत्यादि । न चैवं पिपठीरित्यत्र दीर्घो न स्यादिति वाच्यम् । तस्य नियमं प्रत्यसिद्धत्वात् । अपाठीदित्यत्र सवर्णदीर्घस्तु न धार्यते । सिज्लोप एकादेशे सिद्धो वक्तव्य इति ज्ञापकात् । यद्वाङ्गाधिकारे क्रियमाणो नियम आङ्गमेव विकारं व्यावर्तयति । तेन ऊरित्यकः सवर्णइति च दी| भवत्येव । ग्रहीतेत्यत्र तु ग्रहो लिटीत्यारम्भसामर्थ्यादी? भवत्येव । इदं न्त्ववशिष्यते । पिपठींषि ब्राह्मणकुलानीत्यत्र सान्तमहतः संयोगस्येति दीर्घत्वं न स्यात् । सिद्धत्वादाङ्गत्वात्तेजांसीत्यादौ चरितार्थत्वाच पिपठीरपाठीत् ग्रहीतेत्यादिपूर्वोदात्हतेभ्योस्य वैलक्षण्यादिति । अत्राहुः । पिपठीपीति प्रयोगोऽसाधुरेव । न ह्यत्र नुमागमो लभ्यते । अल्लोपस्य स्थानिवद्भावनाझलन्तत्वात् । न चैवमजन्तत्वप्रयुक्तो नुम् स्यादेवेति वाच्यम् । तस्य सकारादुत्तरत्र प्रसक्त्या दीर्घस्य तथाप्यप्रवृत्तेः । सान्तसंयोगाभावात् । वस्तुतस्त्वजन्तत्वप्रयुक्तो नुमत्र न भवत्येव । स्थानिवद्भावासंभवात् । अनादिष्टादचः पूर्वस्य विधौ हि सः । न चाजन्तमनादिष्टादचः पूर्व येन तस्य नुमि कर्तव्ये ऽल्लोपः स्थानिवत्स्यात् । ननु झलन्तत्वप्रयुक्तो नुम् दुर्वारः। न च तस्मिन्कर्त्तव्ये स्थानिवद्भावः शंक्यः । क्वौ लुप्तं न स्थानिवदिति निषेधात् । अन्यथा सखीयतेः क्विपि सखीः सुतीयतेः सुतीरित्यादि न स्यात् । अल्लोपस्य स्थानिवद्भावेन यणादेशप्रसङ्गात् । अत्रो