SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ [१ अ. १४० शब्दकौस्तुमः । व्यं नत्वन्यथेति महान्फले विशेषः । तत्कथं पक्षद्वयाभ्युपगम इति चेत् । न । अप्स्वित्यस्याधिकरणवृत्तेर्दूरादूतसम्बन्धाभावात् । विचार्यमाणानामित्यादौ तु वाक्यस्य टेरित्यनुवर्तते न तु गुरोरनृत इति । नन्वप्मु भवोप्सव्यः,दिगादिषु पाठायत् । अपो योनियन्मतुषु चेति सप्तम्या अलक ततः सम्बुद्धौ हे अपसव्येत्यत्र स्यादेव फलभेद इति चेत् । अत्राहुः । नैवंविधे विषये ऽवग्रहं पदकाराः कुर्वन्तीति । अत्र च सम्पदाय एव शरणमिति बोध्यम् । उक्तञ्चैतत् । गोभ्यो गातुं गोभिर्मदाय चित्रइद्राजा राजका इदन्यके इत्यादी गोम्यो गोभिः राजका इत्यादीनां सत्यपि पदत्वे ऽवग्रहाकरणात् । ईयिवांसमतिनिध इत्यादावीयिवांसमिति विनापि पदसंज्ञां कसोः पूर्वमिडागमान्ते ऽवग्रहकरणाच्च । एतेन सिसासन् उक्थशसः रिरिष इ. त्यादौ पदकाले सत्त्वस्वत्वादयोपि व्याख्याताः । यत्तु मानो महान्तमिति मन्त्रे वेदभाष्यकारैरुक्तम् । छान्दसः पदकालीनो हस्त्र इति,तदपि सम्पदायमात्रपरतया कथंचिन्नेयम् । न लक्षणेन पदकारा इति भाष्ये पदविभागः पौरुषेय इति कैयटादिभिरुक्तत्वादिति दिक् । कथं तर्हि तत्रतत्रावग्रहे विशेष इत्युच्यतइति चेत् । अवान्तरपदत्वे सत्यवग्रहः क्रियतइत्युत्सर्गमभिप्रेत्योत गृहाण । अप्सुयोनिर्वा अश्व इत्यादावपि मुशब्दात्पूर्व नास्त्यवग्रहः । अवान्तरपदसंज्ञानेकत्त्वे उत्तरकालप्रवृत्तिकयावग्रह इति वैदिकसम्भदायात् । अत एव मयूररोमभिरित्यत्र भिसः पूर्वमवग्रहः । नमउक्तिभिरित्यत्राप्येवम् । इन्द्रमाणः पुरएतेवेत्यत्र चेवशब्दात्मागिति दिक् । महासंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम् । संयुज्यन्ते ऽस्मिन्समुदाये वर्णा इति । तेनात्र समुदाये वाक्यपरिसमाप्तिर्न तु गुणवृद्धयादिसंज्ञावत्मत्येकम् । तथा हि सति नि
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy