SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ ५५० शब्दकौस्तुमः । [१ अ० हुव्रीहिरेव न स्यात् । त्रिकतः शेषस्य भाष्ये स्थितत्त्वात् । सत्यपि वा तस्मिन् पुंवद्भावो दुर्लभः । सिद्धान्ते तु प्रतिग्रा. हिते गन्धमाल्ये ययेति विग्रहः । जायानिष्ठप्रेरणविषयीभूतं गन्धमाल्यकर्मकं यत्पतिग्रहणं तत्कीमित्यर्थः । अन्यपदार्थान्तभीवेणेव विशेषणविशेष्यपरीत्येनैवैकार्थाभावकल्पनात् । मासजातादिवत् । व्यपेक्षापक्षे तु अषष्ठीविभक्तयर्थे बहुव्रीहौ सवत्र व्युप्तत्त्यन्तरकल्पनास्त्येव । प्राप्तादेकामित्यस्य हि उदककतकमाप्तिकर्मीभूतमर्थः । ऊढरथः । रथकर्मकबहनकर्ता । उ. पहृतपशुः । पशुकर्मकापहारसम्पदानम् । उद्धृतोदनः । ओदनकर्मकोद्धरणापादानम् । वीरपुरुषकः । वीरपुरुषकर्तृकस्थित्यधिकरणमिति दिक् । स्यादेतत् । अपादानाद्यविवक्षायां द्विकर्मकतास्तु तद्विवक्षायान्तु जायाप्रतिग्राहितेत्यादि सेत्स्यति । मैवम् । हरतश्चेति चकारेण समुच्चितानां जयत्यादीनामकाथतसूत्रविषयत्वेपि तथैव चेति समुच्चितानामणौ कर्तुौँ कर्मताभ्युपगमात् । गत्यर्थैः साहचर्यात् । अत एव तार्यादयः पृथगव सगृहीताः । युक्तञ्चैतत् । ग्रहणकर्तृत्वस्याविवक्षायां प्रयोजकस्य हेतुत्वाभावे णिचो दुर्लभत्वात् । न चैवं दीपिग्रहणवैयर्थ्यमकर्मकत्वादेवाणौ कर्तुी कर्मत्वसिद्धेरिति वाच्यम् । ण्यन्ताणिचि तत्सार्थक्यात् । शिष्याः तत्वं दीपयन्ति तानसौ प्रेरयतीत्यर्थः । नन्वेवं त्याजेः सङ्गृहीतत्वाद्यद्यपि त्याजितैः फलमुतखातैः, मुक्ताहारञ्चिरपरिचितं त्याजितो दैवगत्यत्याद सिद्धम् । तथापि गवा पयस्त्याजयतीत्यर्थ इति कैयटहरदत्तादिग्रन्थो विरुध्यतइति चैत्रविशेषाविवक्षायां कर्मत्वेपि कर्तृत्वविवक्षायां तस्य निर्वाधत्वात् । स्यादेतत् । कर्तुरीप्सिततमं कर्म तथायुक्तञ्चानीप्सितमिति सूत्राभ्यां सर्वमिदं सिद्धम् । तथाहि।
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy