________________
४ पा. ३ आ.
शब्दकौस्तुभः ।
५५१
यथा विक्लित्त्युपसर्जनं विक्लेदनं पचेरर्थः, न्यग्भावनं रुहेः, द्विधाभावनं भिदेः, तथा त्यजनोपसर्जनं त्याजनं दुहेः । दापनं याचेः भिक्षेश्च । अङ्गीकारणमपि याचेः । प्रवेशोपसर्जनमवस्थापनं रुथेः । आख्यापनं पृच्छेः । मोचनं चिञः । प्रतिवादनं वृञः । तद्विशेषस्तु शासेरित्यादि । एवञ्च धातूपात्तव्यापारविषयाश्रयत्वं गवादेःस्पष्टमेवेति । अत एवाकडारसूत्रे ऽपादानमुत्तराणि, गान्दोग्धीत्यत्र परत्वात्कर्मसंज्ञेति भाष्यं सङ्गच्छते । पञ्चकं प्रातिपदिकार्थ इति पक्षे ऽवधित्वफलाश्रयत्वयोर्युगपद्विवक्षायां चेदम् | अवधिभूता या गौस्तन्निष्टो यः क्षरणानुकूलव्यापारस्ताद्वषयिणी गोपनिष्ठा प्रेरणेत्यर्थात् । अत्रोच्य ते । कर्मणः शेषत्वेन विवक्षायां न माषाणामश्रीयादितिवत् षष्ठीं बाधितुं सूत्रम् । अपादानत्वमात्रविवक्षायां तु पञ्चम्येव, गोः क्षीरविशेषणत्वे तु षष्ठी भवत्येवेति न कश्चिद्दोषः तथा चेह पष्ठीत्सम्बन्धमात्रं द्वितीयार्थ इति स्थितम् । अथेदं विचार्यते । कर्मणि विधीयमाना लकृत्यक्तखलर्थाः किं द्विकर्मकेभ्यो मुख्ये कर्मणि स्युगणे वेति । अत्र भाष्यम् । प्रधानकर्मण्याख्येये लादीनाहर्द्विकर्मणाम् । अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मण इति || अभिधाने इति शेषः । अत्र द्विकर्मणामित्यनेन नीवोहरतेश्चेति चशब्दसमुच्चितः कृषिर्नयत्यादयश्च त्रय उच्यन्ते । अन्येषां विशेषस्य वक्ष्यमाणत्वात् । तथा दुह्यादीनामित्यनेन कारिकोपात्ताः । चशब्दसमुच्चितेष्वहेतुमण्ण्यन्ता दण्ड्यादयश्चोच्यन्ते । व्यन्तइत्यनेन तु गत्यादिसूत्रोपात्ताश्चशब्दसमुचितास्तार्यादयश्च । तत्र अणौ कर्म तस्याभिधाने लादय इत्यर्थः । तत्रापि बुद्धिप्रत्यवसानार्थशब्दकर्मकेषु गुणकर्मणीति मतांतरम् । तथा च भाष्यम् । कथितेभिहिते त्वविधिस्त्वमतिर्गुणकर्म