SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ १ पा. २ आ. शब्दकौस्तुभः । ४९ दिक् । अथवार्थवत्त्वस्याविवक्षायामपि इहोच्चारितो ऽकारादिः स्वसदृशीः षड् व्यक्तीः सादृश्याख्यसम्बन्धेनोपस्थापयति । नचैवमपि वृत्या अनुपस्थितानां शाब्दबाधे ऽन्वय प्रतियोगितानुपपत्तिः । अर्थाध्याहारवादे बाधकाभावात् । अतिप्रसंग भंगस्तु तात्पर्य ग्राहकबलेनैव । अन्यथा तवापि लक्षणाध्याहारादेरतिप्रसङ्गस्य तदवस्थत्वात् । स्पृहेरीप्सितइत्यनुशासनबलात्पुष्पेभ्य इत्यादौ पदाध्याहारः क्लृप्त इति चेन्न । ल्यब्लोपे कर्मणि क्रियार्थोपपदस्य च कर्मणि स्थानिन इत्याद्यनुशासनादर्थाध्याहारस्यापि स्थलविशेषे क्लृप्तत्वात् । अन्यथा गवित्ययमाहेत्यादावगतेश्चेति वक्ष्यते ॥ ऋलृक् । ननु विधिवाक्येषु ऋकारो ग्रहणकशास्त्रबलेन ऋकारादीनष्टादश यथा गृहाति तथा लवर्णानपि द्वादश ग्रहीष्यति तकि पृथग्लुकारोपदेशेन । न च भिन्नस्थानतया सावर्ण्यविरहादग्रहणमिति वाच्यम् । ऋकारलकारयोः सवर्णविघिरिति वार्त्तिकवलेन वाचनिकस्य सावर्ण्यस्यावश्यं वाच्यत्वात् । अन्यथा इहोपदिष्टेपि लृकारे माल्कारयतीत्यादौ उपसर्गाहति धातौ वासुप्यापिशलेरित्यस्याप्रवृत्तिप्रसंगात् । ननु क्लृपिस्थस्य लृकारस्येदमनुकरणम् । तस्य च स्वरकार्येष्वसिद्धत्वादृकार एवायमिति उपसर्गावृतीत्यादि सेत्स्यतीति चेन्न । कृपोरोल इति विहितस्यासिद्धत्त्वेपि तदनुकरणस्यास्यासिद्धत्वविरहात् । स्यादेतत् । प्रकृतिवदनुकरणमित्यतिदेशादयमव्यसिद्ध एव । स चातिदेशोवश्याश्रयणीयः । द्विः पचन्त्वित्याहेति तैत्तिरीयवाक्ये यद्यपि पचन्त्वित्याद्युदात्तं पठ्यते तथापि भाष्योदाहृते शाखान्तरीये पचन्तुशब्दस्य तिङ्ङतिङ इति निघातो यथा स्यात् । नह्येतत्तिङन्तम् । तिङन्तपदार्थक : - •
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy