________________
४८
शब्दकौस्तुभः ।
[ १ अ०
-
एव सर्वेपि ह्रस्वा अणो भवन्त्येवेति अस्यच्चावित्यादौ न कश्चिद्दोषः । अवात्तामित्यादिष्वपि ह्येषैव गतिः । अन्यथा अवात्स्तामिति स्थिते सिचः पूर्वपरयोस्तकारयोर्मध्ये अन्यतरस्यैव झलत्वं स्यान्न तूभयोः। अक्षरसमाम्नाये उभयोरपाठात् । ततश्च झलोझलीति न प्रवर्तेत सूत्रस्यावकाशस्तु अभित्था इत्यादिः स्यात् । एवं च दीर्घाणामनण्त्वेन सवर्णग्राहकत्वं नास्तीत्यपि सिद्धान्तः सगच्छते । अथ व्यापकजातिपरमेव निर्देशं स्वीकृत्य अण्ग्रहणं त्यज्यतामिति चेत् । एवमपि उपसर्गादृतीत्यादौ ऌवर्णग्रहणाय ग्रहणकशास्त्रस्यावश्यकत्वात् । न च ऋलुवर्णयोरिति सावर्ण्यविधानसामर्थ्यातद्ग्रहः । अकः सवर्णइत्यादौ चारितार्थ्यात् । किञ्च । अस्य च्वावित्यादौ व्यापकजातिनिर्देश: त्यदादीनाम इत्यादौ तु व्याप्यजातिनिर्देश इत्यस्य नियामकाभावे सङ्करोपि स्यात् । न चानुवाद्याविशेषणं विधेयविशेषणं च ग्रहपश्येकत्ववद्विवक्षितमविवक्षितं चेतिमीमांसकमर्यादा वैयाकरणैः स्वीकर्त्तुं शक्या । उपेयिवाननाश्वाननूचानश्वेत्यत्र उपेत्यविवक्षितं नष्प्रभृति तु विवक्षितमिति स्वीकारात् । आर्द्धधातुकस्येवलादेरित्यादावनुवाद्यविशेषणस्यापि बहुशो विवक्षणाच्च । तस्माद्वयाख्यानतो विशेषप्रतिपत्तिरिति परिभाषैव सिद्धांते शरणम् । व्याख्यानं तु लक्ष्यानृरोधीति यद्यप्यगत्या तत्र तत्राश्रयिते तथापि नैतद्बलेन ग्रहणकशास्त्रस्य म त्याख्यानं चमत्कारमावहते । ग्रहणकशास्त्रवलेन हि अप्रत्ययो ऽविधीयमानः सवर्णग्राहक इति स्फुटतरं प्रतीयते । उल्लंघिता चेयं मीमांसक मर्यादा धर्मशास्त्रेपि बहुशः श्रेयांसं न प्रबोधयेदि - त्यादिषु । एकः पूर्वपरयोरितिसूत्रे एकग्रहणमपीह ज्ञापकम् । अन्यथाद्गुणइत्येकत्वस्य पश्वेकत्ववद्विवक्षासंभवात्किं तेनेति