________________
शब्दकौस्तुभः । [ १ अ० त्वात् । स्वाद्युत्पत्तिस्त्विह विवक्षाभेदेन वैकल्पिकीत्यर्थवत्सूत्रे वक्ष्यते । अग्नी इत्याहेत्यादौ प्रगृह्यत्वमप्यतिदेशादेव । अतिदेशे ज्ञापकं तु यत्तदेतेभ्यः परिमाणइति सौत्रनिर्देशः । नह्यत्रातिदेशं विना त्यदायत्वं लभ्यते । अभिव्यक्तपदार्था ये इति न्यायेन लोकप्रसिद्धार्थपरतायामेव तत्मवृत्तेः । तथा च प्रयुज्यते, यत्तदोनित्यसम्बन्ध इति । नन्वनेनैवातिदेशेन अत्वस्यावश्यकत्त्वादुदाहृतप्रयोगोनुपपन्न एवेति चेत् । न । उदाहतज्ञापकसूत्रएव त्यदादीनि सर्वैरित्येकशेषस्याकरणेन एतत्तदोः मुलोप इत्यादिनिर्देशैश्चातिदेशस्यानित्यताज्ञापनात् । अथवा प्रावृदशरत्कालदिवां जइति सूत्रे ऽपोयोनियन्मतुषु चेति वार्तिकनेयं परिभाषा अस्या अनित्यता चेत्युभयमपि ज्ञाप्यते । तथाहि । कारीर्यामप्सुमन्तावाज्यभागाविति श्रुतम् । अप्सुमे सोमः, अपवग्ने सधिष्टवति हि तत्र मन्त्री । तत्राप्सुशन्दादनुकरणभूतान्मतुप्यस्यवामीयमित्यादाविवानुकरणस्य विभक्तित्वाभावादेव लुको प्रसङ्गादलुग्विधानमुक्तपरिभाषां ज्ञापयति । मतुबुत्पत्तेश्च प्रथमान्ततां विना दुर्लभत्वात्मातिपदिकताप्यावश्यकी सा च प्रत्ययान्तत्वे सति दुर्लभेति प्रातिपदिकसंज्ञायामतिदेशप्रवृत्तिविरहाभ्यनुज्ञानादनित्यतापि सिद्धा । एतेन युष्मदस्मत्प्रत्ययगोचरयोरित्यादिप्रयोगा व्याख्याताः । प्रकृतमनुसरामः । लकारानुकरणस्याप्यतिदेशेनासिद्धत्वात्माल्कारीयतीत्यादावुपसर्गादृतीत्यस्य प्रवृत्तिसिद्धौ किं सावण्येनेति चेन्न । तथा सति रेफपरत्वप्राप्तावपि लकारपरत्वासिद्धया प्रकृते ऽनित्यत्वेनातिदेशाप्रवृत्तेरेव त्वयापि वाच्यत्वात् । ननु रेफपरत्वे सिद्धे ऽतिदेशाद्रेफस्य लकारो भविष्यतीति चेन्न । एवमपि गम्लुसृप्लुइत्यादिस्थस्य लकारस्यानुकरणे त्वदुक्ताति