SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ३ पा. १ आ. शब्दकौस्तुमः । ४४७ प्रभृतिभिस्तु व्यापारसमानाधिकरणैवोच्यते । अत एवाकर्मकता तेषाम् । सोत्पत्त्यनुकूलव्यापारभाजामपि सूक्ष्मरूपापन्नघटादीनां परसमवेतवघटिनकर्मताविरहात् । उक्तञ्च हरिणा । आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यतइति ॥ अन्येप्याहुः । अस्त्यादावपि धर्म्य भाव्येस्त्येव हि भावना । अन्यत्राशेषभावात्तु सा तथा न प्रकाशतइति ॥ तथा पचौ विक्लिदौ च विक्लित्तिर्यद्यपि साधारणी तथापि पचौ व्यापारव्याधिकरणा विक्लिदौ तु तत्समानाधिकरणा सेति सकर्मकार्मकविभागः । नहि धात्वर्थभूतफलशालित्त्वमात्रं कर्मत्वं किन्तु व्यापारवैयाधिकरण्यमपि फलेपेक्ष्यते । यतूक्तं किं करोतीति प्रश्ने इत्यादि । तदसिद्धम् । आसन्नविनाशं कञ्चिदुद्दिश्य किं करोतीति प्रश्ने अस्तीत्युत्तरस्य सर्वसम्मतत्वात् । इतरत्र तु सुस्थतया निश्चिते किं करोतीति प्रश्नः पाकादिविशेषगोचर एवेत्यवधारणादस्तीति नोत्तरम् । एतेन यात्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयसे । आश्रितक्रमरूपत्त्वात्सा क्रियेत्यभिधीयतइत्यपि व्याख्यातम् । पूर्वापरीभावापन्नानकक्षणविशिष्टस्योत्पत्तिरात्मास्तीत्यादावापि सुलभैवेति भावः । पचत्यादावपि हि अधिश्रयणादिरधाश्रयणान्तो व्यापारकलापः क्रिया । अत एव तस्य युगपदसनिकर्षान प्रत्यक्षता । किन्तु एकैकस्याधिश्रयणादिव्यापारस्य क्रमेणानुभवे सति मनसा सङ्कलना क्रियते । तदुक्तं भाष्ये । क्रिया नामेयमत्यन्तापरिदृष्टा अशक्या पिण्डीभूता निदर्शयितुमिति । ऐक्यमपि पारिभाषिकम् । एकफलावच्छिन्नत्वात् । उक्तं च । गुणभूतैरवयवैः समूहः क्रमजन्मनाम् । बुद्धया प्रकल्पिताभेदः क्रियेति व्यपदिश्यतइति ॥ तदेवं भवत्यादौ क्रियावाचकत्त्वं सुवचम् । अत एवाभूदस्तिभविष्यतीति का.
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy