________________
शब्द कौस्तुभः ।
२१७
१ पा. ६ आ. थापि, फिनद्रिमयटः पूर्वनिपातष्ठक्छसौ तथा । आत्वैकशेषष्यविरहा अकच्च भवतः फलम् । फिञ् । भावतायनिः, त्यदादिस्वेन वृद्धत्वादुदीचां वृद्धादिति फिञ् । भवन्तमञ्चतीतिभवद्यङ्, विष्वग्देवयोश्चेति चकारेण सर्वनाम्नानुकर्षणादग्रादेशः । भवन्मयः, नित्यं वृद्धशरादिभ्य इति मयट् । भवन्मित्रः, सर्वनामसंख्ययोरिति प्रानिपातः । भावत्कः, भवदीयः, भवतष्ठकुछसावित्यत्र हि शत्रन्तनिवृत्तये वृद्धादित्यनुवर्त्यते । आत्वम् । भवादृक् । आ सर्वनाम्न इत्यात्वम् । देवदत्तश्च भवांश्च भवन्तौ त्यदादीनि सर्वैरित्येकशेषः । भवतो भावो भवत्तेत्यत्र सर्वनामसंज्ञया गुणवचनसंज्ञाबाधात् व्यक्ञ्विरहोपि फलम् । अन्यथा हि भावत्यमिति स्यात् | अकच्च, भवकान् । सर्वनाम्नो वृत्तिमात्रइति पुंवद्भावोपि फलम् । भवत्याः पुत्रो भवत्पुत्रः । किंशब्दः प्रश्ने आक्षेपे चेति दिक् । वृत्, सर्वादिगणो वृत्तः समाप्त इत्यर्थः । यदिद्राग्नी अवमस्यां पृथिव्यां मध्यमस्यां परमस्यामृतस्थे इत्यत्र त्ववममध्यमपरमशब्देषु छन्दसि सकलविधिव्यत्ययात् स्याडागमः। न त्वेतदनुरोधेन सर्वादेराकृतिगणत्वमिति मंतव्यम् । अत एव छन्दस्यपि सर्वनामकार्यमेषां न नियतम् । ये मध्यमाः पितरः, विष्णोः पदे परमे इत्यादौ तदभावात् । व्यूहावुभौ तावितरेतरस्मात्, अन्योन्येषां पुष्करैरामृशान्त इत्यादि तु द्विः प्रयोगो द्विर्वचनमिति पक्षे तदन्तविधिना सिद्धम् । स्थाने द्विर्वचनपक्षे तु स्थानिवद्भावेनेत्यवधेयम् । ननु वस्नसादाविव प्रकृतिप्रत्ययविभागस्य संमोहात्स्थानिवद्भावेनापि पदत्वमात्रं स्यात् । न तु सर्वनामता सुविशिष्टे स्थानिनि तद्विरहादिति चेन्न । सन्नि योगशिष्टत्वेनान्तरङ्गमपि द्वित्वं बाधित्वा समासवच बहुलमिति समासवद्भावप्रयुक्तस्य लुकः प्रथमं प्रवृत्तेः । अंतरंगानपि विधी
२८