________________
२१८
शब्दकौस्तुभः ।
[ १ अ०
न बहिरंगो लुग् बाधतइति वक्ष्यमाणत्वात् । ततः प्रत्ययलक्षणेन पदत्वमाश्रित्य द्वित्वप्रवृत्तेः । एतेन तत्तत्तामसभूतभीतय इत्यादि व्याख्यातम् । नन्वस्तुत्तरीत्येतरेतरस्मादित्यस्य स - द्धिः । अन्योन्येषामिति तु कथम् । न ह्यत्र समासवद्भावोस्तीति चेत् । तत्र प्रथमैकवचनान्तत्वं पूर्वपदस्य द्वितीयादयस्तु परपदइति वचनबलेनैव प्रकृतिप्रत्ययविभागस्य सिद्धेरिति दिक् । वन्येतरा जानपदोपदाभिरिति तु वन्या इतरे येभ्य इति बहुव्रीहिणा समाधेयम् । तपर इति ज्ञापकात्सर्वनाम्नः पूर्वनिपातो ऽनित्यः । पुत्रादेकात्पराजय इति तु प्राधान्यादिना आख्यातादित्यर्थे आख्यातणिजन्ताद् घञर्थे कप्रत्यये लाक्षणिकस्य सर्वनामताविरहात्समाधेयम् ॥
विभाषा दिक्समासे बहुव्रीहौ ॥ अत्र सर्वनामसंज्ञा वा स्यात् । उत्तरपूर्वस्यै । उत्तरपूर्वायै । दिङ्नामान्यन्तरालइति प्रतिपदोक्तो दिक्समासो गृह्यते । तेनेह न । या पूर्वा सैवोत्तरा यस्य भ्रान्तस्य तस्मै पूर्वोत्तराय । एवं च बहुव्रीहिग्रहणं न कर्त्तव्यम् । दक्षिणोत्तरपूर्वाणामिति द्वंद्वस्य लक्षणप्रतिपदोक्तपरिभाषयैव वारणात् । ननूत्तरार्थं तत् । तथाहि । एकं बहुव्रीहिवत्, आबाधेचेति द्विर्भावे एकैकस्मै देहि । दक्षिणदक्षिणस्यै इत्यादीष्यते । तत्रोत्तरसूत्रेण निषेधो मा भूत् । बहुव्रीहिरेव यो बहुवीहिर्न त्वतिदिष्टबहुबीहिस्तत्रैव यथा स्यादिति । मैत्रम् | समासग्रहणानुवृत्त्याप्युक्तार्थलाभात् । उत्तरसूत्रस्य प्रत्याख्यानाच्च ॥
।
न बहुव्रीहौ || बहुवीहौ कर्त्तव्ये सति सर्वनामसंज्ञान स्यातू । त्वकं पिता यस्य त्वत्कपितृकः । अहकं पिता यस्य मत्कपितृकः । द्वौ पुत्रौ यस्य द्विकपुत्रः । इह हि समास प्रवृत्तेः