________________
२२८
शब्द कौस्तुभः ।
[ १ अ०
इति युक्तार्थे । वरमिति हि ईषदुत्कर्षे । दुष्ठु निष्कृष्टार्थे । बलादिति हठार्थे । शुइति पूजायाम् । शुनाशीरः । क्षमेति क्षान्तौ । अर्वागिति प्राचीने | शुद्धि शुक्लपक्षे । वदि कृष्णपक्षे । इति स्वरादिः ॥
·
तद्धितश्चासर्वविभक्तिः ॥ तद्धितान्तः शब्दोव्ययं स्याछ । यस्मात्सर्वा वचनत्रयात्मिका विभक्तिर्नोत्पद्यते किं त्वेकवचनम् । ततः तत्र । तद्धित इति किम् । एकः द्वौ बहवः । असर्वविभक्तिरिति किम् । औपगवः । ननु गोदौ वरणा इत्यादावतिव्याप्तिः । न च लुब्योगाप्रख्यानात्, योगप्रमाणे च तदभावे दर्शनं स्यादिति पठतः सूत्रकृतो मते नैते तद्धितान्ता इति वाच्यम् । एवमपि पञ्चैव पञ्चकाः शकुनयः, उभयो मणिः, पचतिकल्पं, पचतिरूपमित्यादावतिव्याप्तदुवारत्वादिति चेतू । अत्राह वार्त्तिककारः, सिद्धन्तु पाठात् । तसिलादयः प्राक्याशपः । शस्प्रभृतयः प्राक् समासान्तेभ्यः । मान्तः कृत्वोर्थः । तसिवती, नानाञाविति । न च इवेप्रतिकृतावित्यधिकारे प्रत्न पूर्व विश्वमात्थाल्छन्दसि इति विधानात्तदन्तस्यासङ्ग्रह इति वाच्यम् । प्रकारवचने थालिति प्रकरणएव प्रत्नादिभ्य इवेथालछन्दसि । प्रकारवचने इदमस्थमुरिति पठितुं शक्यत्वात् स्वरादिगणे आस्थालाविति पाठेन सिद्धत्वाच्च । मान्तइति । आम् अम्चेत्यर्थः । तसि, प्रतियोगे पञ्चम्यास्तसिः । तेनैकदिक्, तसिश्चेति द्वावपि गृह्येते । स्यादेतत् । सूत्रमते कथमुक्तिसम्भवः यावता कर्मणि द्वितीया कयोर्द्विवचनैकवचने इत्यादीनां स्वादिवाक्येनैकवाक्यतापक्षे ऽव्ययेभ्यः स्वादीनां मामिरेव नास्ति । अव्ययादाप्सुप इति ज्ञापकेन तु सर्वा विभक्तयः । उच्यन्ते । अव्ययेभ्यः सप्तानामपि विभक्तीनां त्रीण्यपि वचनानि । तथा सप्तानामप्येकवचनान्येव । अथवा प्रथमाया एव