________________
૩૭૨
शब्दकौस्तुभः ।
[ १ अ०
त्वं स्यादित्युदयनाचार्या व्याचख्युः । यत्तु तत्र वर्द्धमाने नोकम् । पदाङ्गाधिकारइत्यत्र केवलपदाधिकारो गृह्यते न तूतरपदाधिकारः । अन्यथेष्टकेषीकामालानामित्यत्र पुनस्तदन्तविध्युपसंख्यानं व्यर्थं स्यात् । तथा च परममहत्परिमाणमित्यत्र कर्मधारयपक्षेप्यात्वप्रसक्तिर्नास्त्येवेति, तदेतदनवहिताभिधानम् । इष्टकेषीकेत्यस्य प्रयोजनत्वेनोदाहरणात् । उपसंख्यानान्तरस्य गगनकुसुमायमानत्वात् । तस्मादाचार्योक्तमे ब सम्यक् । एतेन सततनैशतमोवृतमन्यतइति भारविमयोगे ओजःसहोम्भस्तमसस्तृतीयाया इत्यलुक् कुतो नेत्याशंक्य वर्धमानोत्तरीत्योत्तरपदाधिकारे तदुत्तरपदग्रहणं नास्तीति दुर्घटवृत्तिकारोतिरप्यपास्ता । यदप्योजः सह इति सूत्रे हरदत्तेनोक्तम् । ओजः प्रभृतीनामुत्तरपदाक्षिप्तं पूर्वपदं प्रति विशेष्यत्वादिति, तदपि वार्तिकविरोधादुपेक्ष्यम् । विशेष्यविशेषणभाव निर्णया यैवेहत्यवार्त्तिकानां प्रवृत्तिरिति कैयटवदेव स्वयमपि व्याख्यातत्वात् । भारविप्रयोगस्त्वित्थं समाधेयः । वृतं वृत्तिः नैशतमसो वृतमिति षष्ठीतत्पुरुषः । नपुंसके भावे क्तस्य योगे शेषत्वविवक्षायां षष्ठी । ततः सततं नैशतमसो वृतं यस्मिन्निति बहुव्रीहिः । यद्वा । वृतु वर्तने, घञर्थे कविधानमिति भावे कः । सततं नैशतमसो वृतं वृत्तिर्यस्मिन्निति प्राग्वत् । अङ्गाधिकारे प्रयोजनान्याह । प्रयोजनं महदस्वसृनप्तॄणां दीर्घविधौ । महान् । परममहान् । आपस्तिष्ठन्ति । स्वापः । नपूजनादिति समासान्तनिषेधः । नन्वेवमपि द्रयन्त रुपसर्गेभ्यो पईदिती कारः प्राप्नोति । न ह्ययं समासान्तः येन ऋक्पूरित्यप्रत्ययश्व निषिध्येत इति चेत्सत्यम् । द्वयन्तरुपसर्गेभ्य इत्यत्राप इति कृतसमासान्तस्यानुकरणं प्रथमान्तम् । अन्हो दन्तादितिवद्वयत्ययेन षष्ठ्यर्थे प्र