SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ १ पा. ९ आ. शब्दकौस्तुमः । ३७१ प्रामोति । अना_यत्वात् । यद्यपि तमधीष्टइत्यत्र कालादिति वर्तते । तथापि काले संख्यये वर्तमानात् षष्टिशब्दादुत्पत्ति विरुध्यते रमणीयादिभ्यस्त्वनभिधानान भवति । परिमाणार्थे तु लुक् दुर्वारः । तथाहि । प्राग्वतेष्ठमिति ठम् तदहतीत्यतः प्राक् तेनक्रीतमित्येवमाधा येास्तेषु भवति । अहंत्यर्थेच । ततः परेपि ये वर्तयतीत्यादय आकालिकडायन्तवचनइत्येवमन्तास्तेष्वपि भवति । एकच ठत्र आहीयानार्दीयार्थसाधारणत्वेपि परिमाणस्य तदर्हतीत्यतः प्राङ् नि. देशात्तत्रोत्पन्नष्ठञ् आर्हाय एव । न च तदस्यति पुनरुपादानमात्रेणायित्वमपगच्छति । न हि काको वाश्यतइत्याीयत्वं निवर्त्तते । किञ्च यद्याहीयत्वं निवर्तेत । तर्हि जीवितपरिमाणादन्यत्रापि लुङ् न स्यात् । द्वौ निष्कौ परिमाणमस्य द्विनिष्कः । न च द्वित्रिपूर्वानिष्कादिति वचनसामर्थ्यात्स्यादिति वाच्यम् । परिमाणातिरिक्तेष्वा यार्थेषु वचनस्य सा. वकाशत्वात् । तस्माद्यस्य षष्टिर्जीवितपरिमाणं षष्टिमसौ भूतो भवतीति तमधीष्टोभृत इत्येव द्विषाष्टिकः साधनीयः । तदस्यति तु त्यक्तव्यम् । सोस्येत्यनुवृत्त्यैवेष्टसिद्धेरिति स्थितम् । धर्माननः । धर्म चरति धार्मिकः । अधर्म चरति आधर्मिकः । अधर्माच्चेत्येतन्न वक्तव्यम् । पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च, प्रयोजनम् । इष्टकेषीकामालानाञ्चिततूलभारिषु । इष्टकचितम् । पकेष्टकचितम् । इषीकतूलेन । मुझेषीकतूले. न । मालभारी । उत्पलमालभारी । इहोत्तरपदाधिकारे प्रयोजनस्योदाहरणात्पदाङ्गेति पदशब्द उत्तरपदपर इति कैयटादयः। अत एव परममहत्परिमाणमित्यत्र परममहतो द्रव्यस्य परिमाणमिति षष्ठीतत्पुरुषः । सामानाधिकरण्ये ह्यान्महत इत्या
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy