SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ शब्दकौस्तुभः । । [ १ अ० ऋतोर्वृद्धिमद्विधाववयवानाम् । ऋतुवाचिनः शब्दायो वृद्धिमान वृद्धिनिमित्तः प्रत्ययस्तद्विधाने अवयवानां पूर्वपदस्वइति शेषः । तदन्तविधिरिह वाचनिक एव । शरदः पूर्वो भागः पूर्व शरत् । पूर्वापराधरोत्तरमित्येकदेशिसमासः । तत्र भवं पूर्वं शारदं । सन्धिवेलावृतुनक्षत्रेभ्यो । अवयवातोरित्युत्तरपदवृद्धिः । वृद्धिमदिति किम् । प्रावृषएण्य इत्यत्र तदन्तविधिर्मा भूत् । तेन तत्र ऋत्वमेव भवति । पूर्वप्रा वृषमिति । अवयवानां किम् । पूर्वस्यां शरदि भवं पौर्वशारदिकमित्यत्राण न भवति किं तु कालाट्ठञेव भवति । तत्र हि यथाकथश्चिकालवाचिनो गृह्यन्ते न तु रूढ्यैवेत्याग्रहः । उत्तरत्र संधिवेला नक्षत्रेभ्य इति विशेषणात् । अत एव सायम्प्रातिकः । पौनःपौनिक इत्यादि सिद्धयति । ठच्विधौ संख्यायाः । द्वे षष्ठी परिमाणमस्येति विग्रहे तद्धितार्थेत्यनेन समासे कृते आर्द्रादिति ठकू न भवति । संख्यायास्तदन्तविधौ सति संख्यातादपि ठप्रतिषेधात् । तेन प्राग्वतोरिति ठञेव भवति । अध्यर्द्धपूर्वेति लुक्तु न भवति । सोस्यांशवस्नभृतय इत्यतः सोस्येत्यनुवर्त्तमाने तदस्यपरिमाणमित्यत्र पुनः प्रत्ययार्थस्य समर्थविभक्तेश्व निर्देशात् । पुनर्निर्देशेन हि प्रकृताल्लुक्सम्बद्धाद्विलक्षणमिदमिति सूच्यते । यद्वा । अनुवर्तमानेन सोस्येत्यनेन सहितं परिमाणं संख्याया इत्येतत्तावत्प्रत्ययं विधत्ते । वतस्तस्य लुकि कृते पुनस्तदस्य परिमाणमिति वचनसामर्थ्यां स्वार्थे तज्जातीयः प्रत्ययः । तस्य विधानसामर्थ्यात् द्विगुनि'मित्तत्वाभावाद्वा लग् न भविष्यति । एतच्च वृत्तिकारमतमात्रित्योक्तम् । भाष्यकारमते तु तमधीष्ट इति सूत्रेण भूतार्थे प्रत्ययं कृत्वा द्विपाष्टिक इत्यादि साध्यम् । न ह्यत्राध्यर्द्धति लुक् ३७०
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy