________________
१ पा. ९ आ.
३६९
शब्द कौस्तुभः मतजनहलात्करणजल्पकर्षेष्विति यत् । यद्विधाविति किम् । हलसीरागिति उग्विधौ तदन्तग्रहणं मा भूदिति कैयटः । अत्रेदं वक्तव्यम् । हलसीरादिति द्विः पठ्यते । तस्येदमित्यधिकारे तद्वहतीत्यधिकारे च तत्रोभयत्रापि तदन्तविधिरिष्ठ एव । आद्यस्य प्राग्दीव्यतीयत्वाल्लुक । द्विहलः । अपरस्य श्रवणम् । द्वैहलिकः । स्पष्टं चेदं चतुर्थे हरदत्तग्रन्थे । युक्तं चैतत् । रथाद्यत् तद्वहतीति रथशब्दस्य द्विरुपादानमेतदर्थमिति भाष्येप्युक्तत्वात् । वहत्यधिकारस्थरथहलयोरुपादानसामर्थ्याभ्यो हि तदन्तविधिरविशेषादुभयत्रापि स्यादेव । न चैवहि यद्विधावित्यसङ्गतमिति वाच्यम् । तस्योपलक्षणत्वात् । यद्वा । रथादिति सूत्रे रथाद्रथाङ्गे इतिवद्वोढरीत्युक्तौ तत्प्रकारकशाब्दबोधस्योपपादयितुं शक्यत्वेपि हलग्रहणे तदुपपादनस्य वक्तुमशक्यत्त्वेन हलग्रहणेन न तदन्तविधिः । अस्तु वा संख्यापूर्वपद एवेति कैयटाशयः । तस्मैहितमिति प्रकरणे शरीरावयवाद्यदिति सूत्रे रथाच्चेति वार्तिकम् । तत्राप्ययं तदन्तविधिर्बोध्यः । यत्तु तत्र कैयटो वक्ष्यति । हलसतिशब्दाभ्यां साहचर्याच्चतुर्थाध्यायविहित एव यदिति तदन्तविधिमाहुरिति । तत्राहुरित्यस्वरसोद्भावनम् । असमासेनिष्कादिभ्य इत्यसमासग्रहणेन तस्मिन्प्रकरणे विशिष्यापि तदन्तविधेर्ज्ञापिततया साहचर्याश्रयणेपि तदन्तविधेर्दुर्वारत्वादित्यवधेयम् । सुसर्वार्द्धदिक्शब्देभ्यो जनपदस्य । सुपाञ्चालकः । सुमागधकः । सर्वपाञ्चालकः । अर्द्धपाञ्चालकः । अवृद्धादपि बहुवचनविषयादिति वुञ् । सुसर्वादज्ज - नपदस्येत्युत्तरपदवृद्धिः । दिक्शब्दः । पूर्वपाञ्चालकः । अपरपाञ्चालकः । पूर्ववद् बुब् । दिशोमद्राणामित्युत्तरपदवृद्धिः ।
४७