SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १ पा. ५ आ. शब्दकौस्तुभः । १६७ नापि तत्सार्थक्यस्य सुवचत्वात् । तथाप्यन्यतरपरित्यागे आवश्यके विनिगमकं किमिति चेदाङ्ग्रहणमेवेत्यवेहि । तद्धि व्यपदेशिवद्भावमात्रवाधे व्यर्थं स्यात् । तस्मादचो विशेषणत्वे नाङ्ग्रहणाज्ज्ञापकात्तदन्तविधिर्न । अचो विशेष्यत्वे तु सुतरान्तदन्तविधिरिति । उभयथाप्येकग्रहणं व्यर्थमेवेति स्थितम् । नन्वच् समुदायनिवृत्त्यर्थमेकग्रहणनस्तु | अइउअपेहीतिसमुदायस्यैव संज्ञा स्यान्नावयवानामेकाद्विर्वचनन्यायादिति चरमस्यैव प्रकृतिभावः स्यान्न तु पूर्वयोरिति । मैयम् । अजित्येकत्वस्य विवक्षयैव समुदायनिराससम्भवात् । अत्राह भाष्यकारः । अच् समुदायग्रहणशङ्कानिरासार्थमेकग्रहणं कुर्वन् ज्ञापयति वर्णग्रहणेषु व्यक्तिसंख्या नवक्ष्यते किन्तु जातिरेव निर्दिश्यतइति । तेन दम्भेर्हल्ग्रह - णस्य जातिवाचकत्वासिद्धमिति वार्तिककृता वक्ष्यमाणं सूत्रेणैव ज्ञापितं भवति दम्भेः सिद्धमित्यन्वयः । अत्र हेतुर्हल्ग्रहणस्य जातिवाचकत्वादिति । तेन दम्भेः सनि कृते सनीवन्तेति विकल्पादि भावे दम्भ चेनीदीतोः कृतयोरत्र लोपोभ्यासस्येत्यभ्यासलोपे हलन्ताच्चेति सनः कित्वान्नलोपे भष्भावे च कृते विप्पति घीप्सतीति रूपद्वयं सिद्धयति । हल्ग्रहणस्य व्यक्तिपर तयोः समीपो हल्नकारो न ततः परः सन् यस्माच्च परः सन् भकारान्नासाविकः समीप इति कित्वं न स्यात् । त था तूंहू हिंसायां तुदादिः ऊदित्वादिवा तितृहिषति तितृक्षतीति स्यादिति दिक् । स्यादेतत् । अइउअपेहीत्यत्र एकाद्विर्वचनन्यायोपन्यासो न युक्तः समुदायसंज्ञयावयवानामननुग्रहात् । अत एव हि निलयान्निग्यादित्यादौ बहूनां सन्निपाते द्वयोः संज्ञा स्वीकृता । नापि निपातग्रहणेन ग्रहणमेकैकस्मिन्निपाते संज्ञाविधानसम्भवात् । सत्यम् । एकाज्समुदायग्रह
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy