________________
१६८
शब्दकौस्तुभः ।
[ १ अ०
णशंकामात्रं तु स्यादेव । तन्निरासायैव क्रियमाणमेकग्रहणं प्रागुक्तमर्थ ज्ञापयति । वस्तुतस्त्वपृक्तसंज्ञायामेकग्रहणमुक्तार्थे ज्ञापकमित्याश्रित्य प्रकृतसूत्रे एकग्रहणस्य परित्याग एव ज्यायान् । निपात इति किम् । चकारात्र । तथा अततेर्डः अः हे अ आगच्छेत्यपि प्रत्युदाहरणम् । आङनाङोर्व्यवस्थामाह भाsaarरः । ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातं ङितं विद्याद्वाक्यस्मरणयोरङिदिति । इह एतच्छब्देन पूर्वमनिर्दिष्टत्वादेत मित्यस्यैनादेशो न कृत इति कश्चित् । तन । अन्वादेशश्च कथितानुकथनमात्रं न त्विदमेव कथित - स्वेदमा ऽनुकथनमिति भाष्यकृता वक्ष्यमाणत्वात् । तस्माद्यकिञ्चिद्विधाय वाक्यान्तरेणान्यदुपदिश्यते सोन्वादेशः । इह तु ईषदर्थादौ यो वर्त्ततइति वृत्तिर्न विधेया किन्तु परिचायकतामात्रेणोपात्ताः अतो नैनादेशः । एतेन नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापयेत्यपि व्याख्यातम् । भीरु-त्वस्य विधेयत्वाविवक्षणात् सिद्धस्यैव हेतुत्वेनानुवादादिति दिक् । ईषदर्थे आ उष्णं ओष्णम् । आङीषदर्थे इति कुगतीति सूत्रे वार्त्तिककृता ङिद्वयवहृतः । क्रियायोगे आ इतः एतः प्रादिषु ङित्पठितः । मर्यादाभिविधौ चेति समाहारद्वंद्वे आगमशासनस्यानित्यत्वान्नुमभावः । मर्यादया सहिते अभिविधाविति मध्यमपदलोपी वा समासः । मर्यादायां, आ उदकान्तात् ओदकान्तात् । अभिविधौ आ अहिच्छत्रात् । आहच्छत्रात् । विना तेनेति मर्यादासहतेनेत्यभिविधिः आङ् मर्यादाभिविध्योरिति चङिनिर्दिष्टः । पूर्वप्रक्रान्तस्य वाक्यार्थस्यान्यथात्वद्योतनाय आकारः प्रयुज्यते । आ एवं नु मन्यसे नैवं पूर्वममंस्थाः संमत्येवं मन्यसइत्यर्थः । वाक्यारंभसूचनाय आकार इत्यपरे ।
1