________________
१३०
शब्दकौस्तुभः ।
[ १ अ०
तेन तन्मते दंशे च्छन्दस्युपसंख्यानमिति क्स्नौ दक्ष्णवः पशव इत्यत्रानिदितामिति नलोपः स्यात् । सत्यम् । छान्दसत्वात्समाधेयः । कित् । चितं स्तुतं मृष्टम् । ङित् । चिनुतः सुनतः मृष्टात् । निमित्तसप्तम्याश्रयणं किम् । व्यवहितेपि यथा स्यात् । छिन्नं भिन्नम् । इक इति किम् । कामयते । शब्दव्यापाराश्रयणं किम् । लैगवायनः । ओर्गुणो हीक एवं प्रवर्त्तते न तत्रेपदोपस्थितिः । ओरि तिनिर्दिष्टस्थानिकत्वात् । तदुक्तम् । तद्धितकाम्योरिक् प्रकरणादिति । ननु ङितीति सप्तमीनिर्देशात्तस्मिन्नितिनिर्दिष्टे पूर्वस्येति परिभाषोपतिष्ठेत तत्र निःशब्दस्य नैरन्तर्य परत्वादिशेचोच्चारणक्रियत्वादव्यवहितोच्चारितस्य निषेधः स्यान्न तु छिन्नं भिन्नमित्यादेरपीति चेत् भवेदेवं यदि ङितीत्येतन्निषेध्यया क्रिया साक्षात्संवध्येत । इह तु गुणवृद्धिभ्यां सम्बध्यते । यस्य च भावेनेति सप्तमी क्रियान्तराश्रयणादौत्सर्गिकसत्ताक्षेपः ततश्च क्ङिति सति प्राप्ते ये गुणवृद्धी इति सम्बन्धे कृते सिद्धसाध्यसमभिव्याहारन्यायेनोपलक्षणीभूतसत्ताश्रयणस्य निमित्तत्वमुत्सर्गतः फलति नत्विह विशिष्यनिमित्तत्तायां सप्तमीविधानमस्ति । न चात्र निर्दिष्टपरिभाषा सम्भवति । विध्यङ्गभूतानां परिभाषाणां साक्षाद्विधेयनिषेध्यक्रियान्वयिन्येव प्रवृत्तेः । इदन्तु क्रियान्वयिनो विशेषणं न तु क्रियायाः । अतोत्र न परिभाषाप्रवृत्तिः । अन्यथा वृद्धिर्यस्याचामादिरित्यत्रेपरिभाषोपस्थाने शालीयादिर्न सिध्येत् । न ह्यत्रेकः स्थाने वृद्धिः । अत एवोदीचामातः स्थानइति सूत्रे स्थानेग्रहणं कृतम् । आतः स्थाने यो कार इत्यनूद्यमानस्य विशेषणे आत इत्यस्मिन्पष्ठीस्थानेयोगेति परिभाषाया अप्रवृत्तेः । गुणानाञ्च परार्थत्वादसम्ब न्धः समत्वात्स्यादिति न्यायोप्यत्रानुसन्धेयः । नन तर्त्यनेनैव