SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १ पा. ४ आ. शब्दकौस्तुभः । न्यायेन ङितीत्येतत्प्रधानभूतक्रियया सम्बध्यतां न तु तच्छेषभूताभ्यां गुणवृद्धिभ्यां, प्रधानान्वयस्थ सम्भवतस्त्यागायोगादिति चेन्न । यत्र हि गुणः कृतात्मसंस्कारः प्रधानोपकाराय महते प्रभवति तत्रात्मनोपि संस्कारमनुभूय प्रधानेन सम्बध्यते । यथा पानीयमेलादिसंस्कृतं पुरुषेण । उक्तञ्च । गुणः कृतात्मसंस्कारः प्रधान प्रतिपद्यते । प्रधानस्योपकारे हि तथा भूयसि वर्त्ततइति ॥ इह गुणवृद्धयोङिद्रहणेन विशेषितयोः प्रधानस्य महानुपकारो भवति । व्यवहितस्यापि प्रतिषेधेसिद्धेः क्रोः कित्करणञ्चात्र ज्ञापकम् । अन्यथा प्रधानेनैवान्वये निर्दिष्टपरिभाषायाश्चोपस्थितौ सत्यां व्यवाहिते निषेधस्याप्रवृत्तौ व्यर्थमेव कोः कित्त्वं स्यात्तस्माद्यथाव्याख्यानमेव साधु । ननु न यदीयं परसप्तमी तार्ह शचङन्ते दोषः लघूपधलक्षणगुणप्राप्तरिति चेन। अन्तरङ्गत्वादियडुवझवृत्तेः। धि धारणे, रि पि गतौ, तुदादयः धियति रियति पियति । णिश्रिद्रुभ्यः कर्तरि चङ् । अशिश्रियत्, अदुद्रुवत्, अमुस्रुवत्, इह तिपमाश्रित्य प्राप्तो गुणो बहिरङ्गः शचङाश्रयावियङवङावन्तरङ्गौ । तदुक्तम् । शच. ङन्तस्यान्तरङ्गलक्षणत्वादिति । मृजेरजादौ संक्रमे वृद्धिर्वेष्यतइति काशिकायाम् । इदञ्चेको गुणवृद्धीइति सूत्रप्रसङ्गाद्वैयाकरणान्तरमतत्वेनोक्तं भाष्ये । अस्यार्थः । संक्रामतो गुणवृद्धी अस्मादिति व्युत्पत्त्या गुणवृद्धिप्रतिषेधनिमित्तभूतः ङित्प्रत्ययोत्र संक्रमशब्देनोच्यते, योगरूढेस्तेन मरीमृज इत्यत्र धात्वंशलोपनिमित्ततया वृद्धिप्रतिषेधहेतावप्यमत्यये नासौ विकल्पः प्रवर्त्ततइत्यवधेयम् । अत एव ङित्यचि वेति वचनं तंत्र भाष्ये कृतम् । मृजन्ति ।मार्जन्ति । अत्र हरदत्तः। अचीत्युच्यमानेपि यस्मिन्विधिस्तदादावल्ग्रहणइति सिद्धे आदिग्रहणं मुख्यानादिग्रहणार्थम् ।
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy