________________
शब्दकौस्तुभः ।
[ १ अ०
व्यपदेशिवद्भावेनाजादौ यूयं ममृज, त्वया ममृजइत्यादौ न भवतीति । तच्चिन्त्यम् | मुख्याजादिपरिग्रहे प्रमाणाभावात् । न हि भाष्ये आदिग्रहणं कृतं येन त्वदुक्तार्थो लभ्येत, किन्तु ङित्यचि वेति वचनं पठितम् । यत्तु ततः प्रागुक्तं भाष्ये " इहान्ये वैयाकरणा मृजेरजादौ संक्रमे विभाषा वृद्धिमारभन्त" इति । तत्तु तदादिपरिभाषाबललब्धवाक्यार्थानुवादमात्रं न तु परकीयविधिवाक्यशरीरमिदं येन स्वदुक्तमर्थं ज्ञापयेत् । अत एवात्रेयो मृजेति भिदादिपाठादङ् गणपाठादेव वृद्धयभाव इत्याह । अत एव रक्षितेनापि धातुप्रदीपे तुन्दपरिमृजस्तुन्दपरिमार्ज इत्युभयं दर्शितम् । दुर्घटवृत्तौ तु तुन्दपरिमृज इत्यत्र व्यवस्थितविभाषया वृद्धिर्नेत्युक्तम् । अत एव धातुवृत्तिषु यूयं ममृज ममाजेति रूपद्वयमुदाहृतम् । यत्तु मुख्याजादिग्रहणवादिनापि मते ऽत्र वृद्धिविकल्प दुर्वार एव । तथाहि । मध्यमपुरुषबहुवचनस्य थ स्य परस्मैपदानामिति सूत्रेण विधीयमानो ऽकारादेशो ऽलोन्त्यस्य प्राप्नोति । न चैत्रं विधिवैयथ्यम् । णलादीनां यथासंख्य सम्पादनेन चरितार्थत्वादित्याशङ्कय भाष्यएव द्वेधा समाधास्यति । अकारद्वयात्मकोयमनेकालत्वात्सर्वादेशः । यद्वा धातोरित्यधिकारादादेः परस्येति थकारमात्रस्याकार इति तत्र पक्षद्वयेप्यतो गुण इति पररूपस्याचः परस्मिन्निति स्थानिवद्भावान्मुख्याजादित्वमप्यस्त्येवेति कैश्विद्धरदत्तमिश्रमते दूषणमुक्तम् । तन्न | आद्यन्तवदित्यातिदेशइव स्थानिवद्भावेपि मुख्यत्वाभावस्य सुवचत्वादिति दिक् । स्यादेतत् । अचिनादमार्ट इत्यादौ स्थानिवद्भावेन तपो ङिश्वात् क्ङितिचेति गुणवृद्धिनिषेधः स्यात् । न चाल्विधित्वात्स्थानिवद्भावासम्भवः । अनुबन्धका - र्येष्वनल्विधाविति निषेधस्याप्रवृत्तेः । अन्यथा ऽचिनवममार्जमि
१३२