________________
'१ प्रा. ४ आ.
शब्दकौस्तुभः ।
१२९
स्येति लोपस्य त्वयाप्यवयवलोपत्वं स्वीकृतम् ) तत्र यद्यपि देद्यक इत्यत्र युटु स्वादिति नापादनार्हम् । हलः परत्वाभावेनेह यलोपाप्रवृत्त्या देदीयक इति रूपाभ्युपगमात् । सनीसूसक इत्यादौ नलोपोपि सर्वसम्मतत्वादेव नापाद्यः । यायायको वा वायक इत्यादावाल्लोपोप्यनापाद्यः । यलोपविरहेणाजादि ङिदार्द्धधातुकपरत्वाभावात् । तथापि गमेर्यङन्ताण्ण्वुले जङ्गमक इत्यत्राल्लोपस्य स्थानिवद्भावाद् वृद्ध्यभाव इवोपधालोपः स्यात् । अथात्रानङीति प्रतिषेधस्तर्हि दरीदृशक इत्यत्र ऋदृशोङीति गुणः स्यात् । अथ यदीहाङ्गवृत्त परिभाषया संज्ञापूर्वको विधिरनित्य इति वा समाधीयते तर्हि यङ्लुक्यपि सनीस्रंस इत्यत्र न - लोपो याया वावा इत्यल्लोपश्च न शंक्यः । समाधानस्य तुल्यत्वादिति दिक् ॥
क्ङिति च ।। इक इतिशब्दमुच्चार्य विहिते गुणवृद्धी गित कितं ङितञ्च निमित्ततयाश्रित्य ये प्राप्नुतस्ते न स्तः। गित, जिष्णुः । ग्लाजिस्थञ्चक्स्नुः । न चायं किदेवास्त्विति वाच्यम् । स्थास्नुरित्यत्र घुमास्थेतीत्वप्रसङ्गात् । न चैवं भूष्णुरित्यत्रेट्प्रसङ्गः । श्रुचकः कितीत्यत्रापि चर्चेन गकारमश्लेषमाश्रित्य तन्निषेधात् । न चैवं चर्व्वस्यासिद्धतया विसर्जनीयो न स्याद्रोरुत्वञ्च प्रवर्त्तेतेति वाच्यम् । न मुनइत्यत्र नेति योगविभागासौत्रत्वाद्वा । तथा च ग्लाजिस्थेति सूत्रे श्लोकवार्त्तिकम् । क्स्नोगित्वान्न स्थ ईकारः किङितोरीत्वशासनात् । गुणाभावस्त्रिषु स्मार्यः श्रयको ऽनित्वं कगोरितोरिति । जयादित्योप्येवम् । वामनस्तु ग्लाजिस्थश्चेत्यत्र स्था आ इत्याकारं प्रश्लिष्य वस्तुप्रत्ययान्तस्य तिष्ठतेराकार एव न त्वीत्वमिति व्याख्यानादेव स्थास्नोः सिद्धौ न क्वापि गकारमश्लेषः कार्य इत्याह । नन्वे
१७