SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ २ पा. १ आ. शब्दकौस्तुमः । : इति लभ्यते । नेह, द्यौः पन्थाः सः ॥ उच्चैरुदात्तः ॥ ताल्वादिषु भागवत्सु स्थानेषु वर्णा निष्पद्यन्ते तत्र ऊर्ध्वभागे निष्पन्नो ऽजुदात्तसंज्ञः स्यात् । प्रदेशा आद्युदात्तवेत्येवमादयः ॥ नीचैरनुदात्तः ॥ स्पष्टम् । प्रदेशा अनुदात्तौ सुष्पितावि १९७ त्यादयः ॥ समाहारः स्वरितः ॥ समाहृतिः समाहारः । उदात्तत्वानुदात्तत्वयोरधर्म योर्मेलनम् । तद्वान् स्वरितसंज्ञः स्यात् । सूत्रे अर्शआद्यच् ॥ । तस्यादित उदात्तमर्धस्वम् ॥ अर्द्धहस्वशब्देनार्द्धमात्रा - क्ष्यते । प्रकृतत्वादेव सिद्धे तस्येति वचनेन दीर्घस्यापि स्वर - तस्य ग्रहणात् । यद्वा । ह्रस्वग्रहणमविवक्षितम् । तेन स्वरितस्यादौ अर्द्धमात्रा अर्द्ध वा उदात्तं बोध्यम् । शिष्टं तु अनुदातं परिशेषात् । क्व चित्त तस्य वाचनिकी एकश्रुतिः । तथा च बह्वृचप्रातिशाख्यम् । एकाक्षरसमाबेशे पूर्वयोः स्वरितः स्वरः । तस्योदात्ततरोदात्तादर्धमात्रार्द्धमेव वा ॥ अनुदात्तः परः शेषः स उदात्तश्रुतिर्न चेत् । उदात्तं वोच्यते किञ्चित् स्वरितं वाक्षरं परमिति । पूर्वयोः, उदात्तानुदात्तयोः । तस्य, स्वरितस्य । अर्द्धमात्रा उदात्तादुदात्ततरा स्वतन्त्रोदात्तादुच्चतरेत्यर्थः । अर्द्धमेव वेति द्वितीयव्याख्याभिप्रायम् । दीर्घप्लुतयोरनुरोधेनेदम् । सः शेषः, उदात्तश्रुतिः स्यात् । किमविशेषेण । नेत्याह । नचेदिति । उदात्तस्वरितपरं विहायेत्यर्थः । अत्रायं निष्कर्षः । स्वरितो द्विधा । प्राकृतोप्राकृतश्च । तत्राद्य उदात्तादनुदात्तस्येति विहितः । तच्छेषस्यैकश्रुतिर्नियता । अग्निमीळे प्रत्यग्ने इत्यादि । गार्ग्यादिमते तु अत्राप्यनुदात्तः शेषः ।
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy