SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ शब्दकौस्तुमः । [ १ अ० तस्मिन्निति निर्दिष्टे पूर्वस्य ॥ सप्तमीनिर्देशेषु पूर्वस्यैष काये स्वात्तस्य निर्दिष्टे व्यवहितोच्चारिते सतीत्यर्थः ॥ निःशदो नैरन्तर्ये दिशिरुवारणक्रियः । निरन्तरं दिष्टो निर्दिष्टः । नियमार्थमिदं सूत्रम् । तथाहि । इकोयणचीत्यत्राचीति य: स्वच भावनभावलक्षणापीति सप्तमी । अश्रूयमाणक्रियत्वावास्तरङ्गस्यास्त्यर्थस्य लाभः । तेनाचि सति यण् भवतीत्यर्थः । यद्वा गङ्गायां घोष इतिवदौपश्लेषिके ऽधिकरणे सप्तमी तत्र सत्वं परस्येव पूर्वस्यापि सम्भवति । एवमुपश्लेषोपि । तत्र युगपदेकस्य कार्यित्वनिमित्तत्वयोरसंम्भवाद्दध्युदकं मध्विदमित्यादाविकारोकारयोः पर्यायेण यण प्राप्तः पूर्वस्यैवे - त्रि नियम्यते । तथा अग्निचिदत्रेति व्यवहितस्यापि यप प्राप्तः, अनन्तरस्यैवेति नियम्यते । ननु गवित्ययमाहेत्यादौ स्वरूपपदार्थकता मितिशब्दः करोति तथेहापि एवं च तस्मिमणीत्यत्रैवेयं परिभाषा प्रवर्त्तेत । अस्ति हि तत्र व्यंवच्छेद्यम् । हे यौष्माकीण अस्मभ्यं देहि हे आस्माकीन यु भ्यं ददामीत्यादौ खवणभ्यां परस्याप्यादेशप्रसङ्गसत्त्वात् । सत्यम् । इतिकरणः पदार्थविपर्यासकृत् । लोके ऽर्थपरता - या औत्सर्गिकत्वात्तत्र शब्दपरतां करोति । शास्त्रे तु विप रीतम् । किञ्च यदि तस्मिन्नणीत्यत्रैवेयं प्रवर्त्तेत तर्हि तत्रैव पूग्रहणं कुर्यात् । तस्मान्नेदं तस्मिन्नित्यनुकरणम् । किन्त्वचि हलीत्यादिसकलविशेष संग्रहार्थं स्वतन्त्रस्य सर्वनाम्नोयं निदेशः । तस्यापत्यं तत्रभव इत्यादिवत् ॥ २४६ तस्मादित्युत्तरस्य 11 पञ्चमीनिर्देशेषूत्तरस्यैव कार्य स्यात्तच्चाव्यवहितोच्चारिते । तिङ्ङतिङः । अग्निमीळे । इह न भवति । ईळे ऽग्निम् । इह कारकविभक्ते +
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy