SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ २ पा. १ आ. शब्दकौस्तुमः । ३७९ गाङ्कुटादिभ्यो णिन्डिन्त् । गाडनदेशात्कुटादेश्व परेऽणित: प्रत्यया द्वित्स्युः ॥ अध्यगीष्ट। विभाषालुङ्डोरितीडो गाङ् । इह विशेषणार्थ एव हि गाडादेशे डकार इति गाङ्लिटीति सूत्रे वक्ष्यते । कुटिता । कुटितुम् । अणित्किम् । कोटः । पञ् । चुकोट । व्यचे कुटादित्वमनीति वक्तव्यम् । एतच्च षष्ठे लिट्यभ्यासस्येति सूत्रे भाष्ये पठितमपि सन्दर्भशुद्धयर्थ वृत्तिकृतेह पठितम् । तुदादिगणे कुटादिभ्यः पाक् पठितस्य व्यचेः कुटादित्वं वार्तिकेनातिदिश्यते । विचितुम् । विचिता । अनसि किम् । उरुव्यचाः । अत्र हरदत्तः । अनसीति पर्युदासात्कृत्येवेदम् । तेनेह न । विव्यचिथ । अ. व्याचीत् । अव्यचीत् । के चित्तु प्रसज्यप्रतिषेधमाश्रित्य थला. दिष्वपि डित्त्वमाहुः । तत्तु वाक्य भेदादसमर्थसमासाच्चायुक्तमिति माधवादयः । अथ कथं लिखितुं स्वयमेव लिखिष्यते इति । अत्र दुर्घटादयः, कण्वादिभ्य इत्यत्रेव षष्ठीतत्पुरुषबहुब्रीह्योः सहविवक्षया बहुव्रीहिशेषोयम् कुटादिभ्य इति । तेन लिखेरपि कुटस्यादितयात्र सङ्ग्रह इति । तन्न । शकुनिष्वा. लेखनइति सौत्रप्रयोगविरोधापत्तेः । रलोव्युपधा, दीश्वरेतोसुनित्यत्र वृत्तिग्रन्थविरोधाच्च । तत्र हि लिखित्वा लेखित्वा लिलिखिषति लिलेखिपति विलेखितुमिति प्रदर्शितम् । तस्मा. संज्ञापूर्वकतया समाधेयमिति हरदत्तः । कथं चुकुटिषतीति सनो ङित्त्वाद्यङन्तादिव तझसङ्गात् । मैवम् । उपदेशग्रहणानुवृत्त्योपदेशे यो ङित्तदन्तादात्मनेपदमिति व्याख्यानात् ॥ विज इट् ॥ विजेः पर इडादिः प्रत्ययो डित्स्यात् । उद्विजितुम् । इट् किम् ॥ उद्वेजनम् । इह वृद्धिर्यस्येतिमूत्रान्मण्डूकप्लुत्या यस्यादिरित्यनुवर्तते तेनेडादिः प्रत्ययो लभ्यते न तू
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy