SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ २८३ २ पा. १ आ. शब्दकौस्तुभः । विति हरदत्तः । अत्र मूलं मृग्यम् । तथा सुधाकरमते श्रेथिथ, न्यसादिमते शश्रन्थिथेति वदतो माधवस्याप्युक्तो मूलं मृग्यम्। कित्वे विप्रतिपत्तावपि थलि चसेटीत्यस्यापाप्तेरविशेषात् । तथा नलोपस्यासिद्धत्वादेत्वाप्राप्तौ वचनामति माधवोक्तिरपि शिथिलमूला । श्रन्थेतिमाग्भागे संयोगसत्त्वादन्थेरादेशादित्वाच्चैत्वाप्राप्तेरुद्भटतया नलोपसिद्धत्वासिद्धत्वविचारस्य काकदन्तपरक्षिापायत्वादिति दिक् । कौमाराणां तु सर्वमिदं सूत्रारू. दम् । तथा च शर्ववर्मणा सूत्रितम् । अनिदनुबन्धानामगुणेनु। षङ्गलोपः । परोक्षायामिन्धिश्रन्थिग्रन्थिदम्भीनामिति । अ. स्यैकव्यञ्जनमध्येनादेशादेः परोक्षायाम् । थलि च सेटि । तृफलमजत्रप्श्रन्थिग्रन्थिदम्भीनां चेति । अत्र निरनुषङ्गैः साहचच्छिश्रन्थिथेत्यादीति दुर्गसिंहः । एवं स्थिते दम्भेश्चेति वातिकभाष्ययोः सामान्यापेक्षज्ञापकतामाश्रित्य दम्भिप्रभृतीनामन्यत्रोक्तं पाणिनीयेपीष्टमिति कथञ्चित्समर्थनीयम् ॥ मृडमृदगुधकुषक्लिशवदवसः क्त्वा ।गुधकुषक्लिशिभ्यः क्त्वोरलोव्युपधादिति विकल्पे प्राप्ते इतरेभ्यो नक्त्वासेडिति निषेधे प्राप्ते कित्त्वं विधीयते । मुडित्वा । मृदित्वा । गुधित्वा । कुषित्वा क्लिशित्वा । उदित्वा । उषित्वा । वसतिक्षुधोरितीट् । यजादित्वात्संप्रसारणम् ॥ ___रुदविदमुषग्रहिस्त्रपिप्रच्छस्संश्च ॥ एभ्यस्संश्च क्त्वा च कितौ स्तः । रुदविदमुषाणां रलोव्युपधादिति विकल्पे प्राप्त ग्रहेस्तु विध्यर्थमेव । स्वपिप्रच्छयोस्तु सन्नर्थम् । तावतैव चरितार्थत्वादनिटः क्त्वः किन्त्वविधानं नियामकं स्यादिति न शङ्कनीयम् । रुदित्वा । रुरुदिषति । विदित्वा । विविदिषति । मुपित्वा । मुमषिषति । गृहीत्वा । जिघृक्षति । मुप्त्वा। सुषुप्सति।
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy