SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ ३०२ शब्दकौस्तुमः । [१ अ० णादीनामव्युत्पत्तिपक्षालम्बेनापि सिद्धम् । वाग्बोरिति तु बहिरङ्गस्यासिद्धतया सिद्धम् । किलुगुपधात्वचङ्परनिसकुत्वेखूपसंख्यानम् । पूर्वत्रासिद्धे च । तस्य दोषः संयोगादिलोपल. त्वण त्वेषु । अस्यार्थः । क्वौ विधि प्रति न स्थानिवत् । लवमाचक्षाणो लौः । अत्र णिचि यष्टिलोपो यश्च क्वौ णिलोपस्तदुभयं वोः शूडिति वकारस्य क्विन्निमित्ते उठि कर्तव्ये न स्थानिवत् । एत्येवत्यूस्विति वृद्धिः । तथा पिपठिषि ब्राह्मणकुलानीति दीधीवेवीटामितिसूत्रे यदुदाहृतं तदपि क्वौ विधि प्रतीति व्याख्याने एव सङ्गच्छते । क्वौ लुप्तं प्रति न स्थानिवदिति व्याख्याने तु लौः पिपठिषीत्युभयमपि न सिद्धयेत् । णिचि टिलोपस्य स्थानिवद्भावे कठो ऽसम्भवात् । पिपठियतेरप्रत्यये अतो लोपे नपुंसकबहुवचने शौ झल्लक्षणे नुमि कर्तव्ये अतो लोपस्य स्थानिवत्वनिषेधेन नुम्प्रसङ्गाच्च । एतच्च दधिीवेवीटामिति सूत्रे कंड्वादिसूत्रे च मिश्रयन्थे स्फुटम् । कैयटोपि दीधीवेवीटामित्यत्र क्वौ विधि प्रतीत्यर्थो व्यवस्थितो न तु क्वौलसं न स्थानिवदितीत्याह । अत्र व्यवस्थितइति वदता क्वौ लुप्तं न स्थानिषदिति पक्षोपि क्व चिदाश्रीयतएव, नियमः परं नास्तीति मूचितम् । लुप्तमिति नपुंसके भावे क्तः । एवं च सख्युर्गोमान् पदः त्वम् अहमिति सिद्धम् । तथाहि । ख्यत्यात्परस्यतिसूत्रे भाष्यम् । सखीयतेः सख्युः लूनीयतेलून्युरिति । तत्र सखीयतेः क्विपि अल्लोपे यलोपे अल्लोपस्य स्थानिवद्भावात् परत्वात्किलोपं बाधित्वा इकोयणचीति यण स्यात् । ततो यलोपे सखो लून इति स्यात् । अत एव को लुप्तं न स्थानिवदिति तत्र यणं परिजहार कैयटः । तथा उगिदचामिति सूत्रे अ. धातुभूतपूर्वस्यापि नुमर्थमधातुग्रहणमित्युक्त्वा गोमन्त्यतेरम
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy