SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ १ पा. ८ आ. शब्दकौस्तुभः । त्ययेगोमानित्युदात्दृतं भाष्ये । तत्राप्यस्लोपस्य स्थानिवत्त्वासर्वनामस्थानपरत्वं नास्तीति नुम् न स्यात् । न चाधातुग्रहणसामर्थ्यात्स्थानिवद्भावकृतव्यवाये सत्यपि नुम् स्यादिति वाच्यम् । आचारविबन्तारिकप्चति किपि चरितार्थत्वात् । तस्मा को लुप्तं नेत्येव शरणम् । नन गोमन्त्यतेर्गोमततेर्वा उभयथापि गोमानिति न सिध्यति । अत्वसन्तस्योति दीर्घविधौ अधातोरिति विशेषणात् । सत्यम् । तत्राधातुग्रहणमसन्तस्यैव विशेषणं न त्वत्वन्तस्यापीति वक्ष्यमाणत्वान्न दोषः। तथा येनविधिस्तदन्तस्यति सूत्रे केवलोपि पाच्छन्दोस्ति । पादयतेः पात् । पद इति भाष्यम् । अत्रापि स्थानिवद्भावाव्यवधानेन पद्भावो न स्यात् । क्वौ लुप्तं नेति सिध्यति । अत एव पादस्य पादहस्त्यादिभ्य इति न सूत्रितम् । प्रतिपदोक्तस्यास्यैव पदादेशो मा भूत् । किं तु क्विबन्तस्यापि यथा स्यादिति । एवं च पा. दस्य लोप इति गुरुनिर्देशं कुर्वता सूत्रकृतैव क्वौ लुप्तं न स्थानिवदिति ज्ञापितम् । तच्च क्वाचित्कमिति तु प्रकृतसूत्रस्थेनैवं विज्ञायते क्वौ लुप्त नेति भाष्यस्यार्थः। विशब्दमाहात्म्यात ख्यत्यात्सूत्रादिभाष्याच्चति व्यवस्थितशब्दं प्रयुञानेन कैयटेन ध्वनितम् । युष्मानाचष्टे युष्मयति । ततः क्विपि णिलोपे सौ त्वाहौसौ इति कर्त्तव्ये णिलोपो न स्थानिवत् । तदुक्तम् । स्थानिव-त्वं च णेरत्र क्वौ लुप्तत्वान्न विद्यते इति । स्थानिवत्त्वमिति । लोपस्येति शेषः । णेः क्वौ लुप्तत्वादित्यन्वयः । अस्तु तार्ह क्वौलुप्तमित्याप नित्यमेव । तावतापि लवमाचक्षाणो लौरित्यस्य सिद्धेरिति चेत्र । पिपठित्यस्यासिद्धिप्रसङ्गात् । देवयतेर्दयूरिति तु इह कैयटेन यदुदाहृतं क्वौ लुप्तं नेति सिध्यतीति । तस्यायमाशयः । यद्यपीह क्यो विधि
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy