________________
१ पा. ८ आ. शब्दकौस्तुमः ।
३११ 'स्यायतिपरत्वाविघातात् । कृते त्विह लत्वग्रहणे येन नाव्यव. धानन्यायेन पल्ययत इत्यत्रापि लत्वं सिध्यति । स्फुटं चेदमष्टमे भाष्यएव । तस्मादिह लत्वग्रहणं कर्त्तव्यमेवेति स्थितम् । णत्वग्रहणं तु व्यर्थम् । तथाहि । माषवपनीति तावद्वहिरङ्गपरिभाषयापि सिद्धम् । न च पहिणोति प्रमीणीतइत्यादिसिद्धये तदिति वाच्यम् । अचः परस्मिन्निति सूत्रस्य प्रवृत्तिं विनाप्येकदेशविकृतस्यानन्यतया हिनुमीनेत्यस्य प्रवृत्तिसम्भवात् । न च ष्णान्ताषाडिति सूत्रे वर्णितरीत्या प्रियाष्ट्न इत्यादिसिद्धये णत्वग्रहणमिति वाच्यम् । कार्यकालपक्षे बहिरङ्गपरिभाषयैव तस्यापि सिद्धेः । यथोद्देशपक्षस्तु न ग्रहीष्यते। प्रत्याख्येयेन णत्वेन सह फलसाम्यार्थम् । एतेन प्रियाष्ट्ण इति णत्वाभ्युपगमपरः पदमञ्जरीग्रन्थोप्यपास्तः । बहिरङ्गपरिभाषायाअनित्यत्वेपीहतदप्रवृत्ती प्रमाणाभावात् । तस्मादिह णत्वग्रहणं वृथति स्थितम् । प्रत्युत णत्वे स्थानिवत्त्वाभ्युपगमे बाधकमप्यस्ति । तथाहि । अनितेरन्त इति सूत्रेऽन्त इति योगं विभज्य हे पाण् इति रूपसिद्धये पदान्तस्योति प्रतिषेधं बाधितुमन्तइति सूत्रेण पदान्तस्यानितर्णत्वं विधीयतइत्येका व्याख्या । अन्तशब्दं समीपपर्यायमाश्रित्य निमित्तसमीपस्थो योनितेर्नकारस्तस्य णत्वं निमित्तसमीपस्थस्यानितेर्यो नकारस्तस्य णत्वमिति च योगविभागं विनापि व्याख्यानद्वयं भाष्ये स्थितम् । तत्र प्रथमपक्षे प्राणितीत्यादावेकेनाकारेण व्यवधानोप वचनसामर्थ्याण्णत्वं प्रवर्त्तते । द्वितीयपक्षे त्वेकादेशस्यादिवद्भावाद्रेफादव्यवहितस्यानितेः सम्भवात्मवर्चते । पर्यनितीत्यत्र तु वर्णद्वयेनैकेन च व्यवायात्पक्षद्वयपि णतं न प्रवर्ततइति स्पष्टमष्टमे । याद चेह णत्वग्रहणं क्रियते तार्ह पर्यनितीतिवत्माणि