SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ३१० शब्दकौस्तुमः । ---[१ अग मादिलोपे प्रतिप्रसवस्य जागरूकत्वात्। तस्मात्सयोगादिलोपग्रहणं कर्त्तव्यमेवेति स्थितम् । इदं त्वधेयम्। संयोगान्तस्यलोप इत्यत्र न वा अलो लोपाबहिरङ्गलक्षणत्वाद्वति द्विधा सिद्धान्तव्यवस्थापनात् । कूरिति संयोगान्तलोपोपि दुर्लभः । तेन कुस्म् इत्येव भवति प्रथमपक्षे। द्वितीयपक्षाभिप्रायेण तु माधवः । नन्वे.. क्मपि लवग्रहणं व्यर्थम् । निगाल्यतइत्यत्र सत्यापि णिलोफे प्रत्ययलक्षणेन लत्वसिद्धेः । न च वर्णाश्रयत्वम् । धातोः स्वरूपे तत्मत्यये कार्यविज्ञानात् । इदं च दाण्डिनायनादिसूत्रे भ्रौणहत्येति तत्वनिपावनेन ज्ञापयिष्यते । किश्चान्तरात्त्वादपि लत्वं. सुवचमिति । अत्रोच्यते । तृणहइमित्यत्राचि नेत्यनुवर्तते । हलाति निवृत्तम् । तथा चावणेडित्यादिसिद्धये प्रत्ययनक्षणं नारम्भणीयम् । किं तु नियमार्थं तदारम्भ इति भाष्ये स्थितम् । इतरव्यावृत्तिमात्रफलकं प्रत्ययलक्षणसूत्रम् । तत्तत्कार्याणि तु स्थानिवत्सूत्रेण निर्वाह्याणि । तत्र च प्रदीव्येतीनिवृत्तये अप्राधान्येनाप्यलाश्रयणे निषेधः स्थितः । तथा चाचि प्रत्यये विधीयमानं लत्वं स्थानिवद्भावं विना दुर्लभमेव । यदप्यन्तरङ्ग त्वाल्लल्वमित्युक्तं, तदपिन । अकृतव्यूहपरिभाषया लत्वाप्रवृत्तेः। किञ्चोपसर्गस्यायताविति सूत्रे पक्षद्वयं वक्ष्यते । अयतिपरत्वं उपसर्गस्य विशेषणं रेफस्य वेति । तत्राये पक्षे पल्ययतइति सिध्यति प्लायतइति तु व सिध्येत्. । एकादेशे कृते व्यपवर्गाभावात् । उभयत आश्रये अन्तादिवद्भावायोगाच । तस्मात्तत्र स्थानिवद्भावेनैव व्यपवर्गो वक्तव्यः । स च पूर्वत्रासिद्ध चेति निषिद्ध इति लत्वे प्रतिप्रसवः सार्थक एवः । द्वितीयपक्षे तु पल्ययतइति न स्यात् । यकारेण व्यवधानात् । प्लायत इत्यत्रैव प२ लत्वं स्यात् । पूर्वत्रासिद्धचेति स्थानिवत्वनिषेधेन तत्र रेफ
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy