SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ शब्दकौस्तुभः । [१ अ० स्पर्धते, कुरुते, निविशतइत्यादावुभयप्रसङ्गे परत्वानित्यत्वाच । विकरणेषु तैर्व्यवधानानियमो न स्यात् । ततश्च प्रकृतिनियमपक्षे विकरणान्तादुभयमसङ्गः । प्रत्ययनियमपि तुल्यजातीयस्यैव नियमेन व्यात्तिः धातोरनन्तरस्य लस्य यद्यात्मनेपदमनु. दात्तडिन्त एव यदि तु परस्मैपदं शेषादेवेत्यादि । तथा च धात्वन्तरात्तव्द्यावृत्तावपि विकरणव्यवधाने नियमाप्रवृत्तेः पदद्वयमपि स्यादेव । सत्यम् । विकरणेभ्यो नियमो बलीयानिति वृद्भयास्यसनोरितिस्यग्रहणेन ज्ञाप्यते । अतो नियमद्वयेप्यदोपः । तत्रापि प्रकृत्यर्थनियमपक्षो बलीयानित्यवधेयम् । तत्र हि शेषात्कर्तरीति न वाच्यम्, किन्तु परस्मैपदमित्येव यत्र तच्चान्यच्च प्राप्तं तत्र परस्मैपदमेव स्यात् । प्रत्ययनियमपक्षे तु शेषादिति कर्तरीति वाच्यम्, योगश्च विभजनीय इति दोषत्रयमधिकं स्यात्। तिवादिवाक्येन सह वाक्य भेदः परिसङ्ख्याप्रयुक्तत्रिदोषता चेति दोषचतुष्कन्तु पक्षद्वयप्यस्त्येत्र । यदि तु तदपि किमर्थ सोढव्यमिति बुद्धिस्तार्ह लस्य तिबादय इत्यनेनसहेदं प्रकरणमेकवाक्यतया विधायकमिति व्याख्येयम् । अस्मिन्पक्ष शेषात्क-रीति कर्त्तव्यमेव । परस्मैपदमात्मनेपदमिति च सूत्रशाटकवद्भाविनी संज्ञाश्रयणीया । अन्यथा विहितानां संज्ञा संज्ञया च विधानमित्यन्योन्याश्रयः स्यात् । अस्मिश्च पक्षे विकरणेषु न कश्चिद्दोषः । लादेशेषु कृतेषु सार्वधातुकमाश्रित्य विकरणप्रवृत्तः । न च स्यादिषु दोषस्तदवस्थ एवेति वाच्यम् । लमात्रापेक्षयान्तरङ्गेषु तिबादिषु कृतेषु लकारविशेषापेक्षतया बहिरङ्गाणां स्यादीनां प्रवृत्तेः॥ भावकर्मणोः। अनयोविहितस्य लस्यात्मनेपदं स्यात् । सुप्यते । क्रियते । प्राग्वदेकवाक्यतया विधिः भिन्नवाक्यतया नि
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy