SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ शब्दकौस्तुमः । [ १ अ० तिरोन्तर्धौ । तिरोभूय । अन्तर्धी किम्। तिरोभूत्वा स्थितः । पार्श्वतो भूत्वेत्यर्थः ॥ विभाषा कृषि || प्राप्तविभाषेयम् । तिरोन्तर्धावित्यनुवृतेः । तिरःकृत्य तिरस्कृत्य । तिरसोन्यतरस्यामिति वा सत्वम् । प्रत्युदाहरणे तु न सत्वम् । तद्विधौ गतिग्रहणानुवृत्तेः । तिरः कृत्वा काष्ठम् । के चित्त्विहापि सत्वमिच्छन्तः पराभवे - तिरस्कारशब्दप्रयोगं चानुरुन्धानाः सत्वविधौ गतिग्रहणं निवतयन्तीति माधवः ॥ उपाजेन्वाजे || एतौ कृषि वा गतिसंज्ञौ स्तः । विभक्तिप्रतिरूपकौ निपाताविमौ दुर्बलस्य सामर्थ्याधाने वर्तेते । उ- पाजेकृत्य । उपाजेकृत्वा । अन्वाजेकृत्य । अन्वाजेकृत्वा । उपष्टभ्येत्यर्थः ॥ ५६८ साक्षात्प्रभृतीनि च । एतानि कृषि वा गतिसंज्ञानि स्युः । व्यर्थ इति वक्तव्यम् ॥ साक्षात्कृत्य साक्षात्कृत्वा । असाक्षाद्भूतं साक्षात्क्रियते चेत्तदायं प्रयोगः । न तु साक्षाद्भूतस्यैव रूपान्तशपादने । च्व्यन्तेषु तु पूर्वविप्रतिषेधादूर्यादिच्विति नित्यैव संज्ञा । तेन लवणीकृत्येत्यत्र मान्तत्वं न भवति । तद्विविकल्पसन्नियोगेनेह गणे निपात्यते । यद्वा लवणशब्दस्य लवणमिति मान्त आदेशः । तथा च मास्तु पूर्वविप्रतिषेधः । त्रैशव्यं हि नः साध्यम् । लवणंकृत्य लवणंकृत्वा लवणीकृत्येति । तत्र व्यन्ताव्यन्तयोः पाक्षिके लवणमादेशे समं रूपं । परेणापि विकल्पेन मुक्ते तु च्व्यन्तस्य नित्या संज्ञेति न कश्चिद्दोषः । इहाग्नौ व शेप्रभृतयो विभक्तिप्रतिरूपका निपाताः । प्रादुराविःशब्दयोरूर्यादित्वात्माप्ते विभाषा । साक्षात् मिथ्या चिन्तेति मनोव्यापारे । चिन्ताकृत्य । भद्रा आलोचनाप्रशंसामङ्गलध्वयम् । रोचनेतीति
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy