SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ ४ पा. ४ आ. शब्दकौस्तुभः। ५६७ 'अपरिग्रहे किम् । अन्तर्हत्वा मूषिका श्येनो गतः । परिगृह्य गत इत्यर्थः । अत्रेदमवधेयम् । हत्वा गमनं द्विधा । इतं त्यक्त्वा परिगृह्य चेति । आयमुदाहरणम् । द्वितीयं प्रत्युदा हरणम् । अपरिग्रहे इति च प्रयोगोपाधिने तु वाच्यकोटिनि विष्टमिति ॥ कणेमनसी श्रद्धापतीघाते ॥ गती स्तः । कणेहत्य पयः पिबति । मनोहत्य । कणेशब्दः सप्तमीप्रतिरूपको निपातोभिलाषातिशये वर्तते । मनःशब्दोप्येवम् । अतिशयेनाभिलष्या तनिवृत्तिपर्यन्तं पिबतीत्यर्थः। ततश्च श्रद्धाया अपगमात्तत्प्रतीघातो धातुगतिसमुदायगम्यः। श्रद्धाप्रतीपाते किम् । कणेहत्या गतः । मनोहत्वा । सूक्ष्मतण्डुलावयवः कणस्तस्मिन् हत्वेत्यथः । मनःशब्दस्तु चेतसि ॥ पुरोव्ययम् ॥ पूर्वाधरावराणामिति व्युत्पादितो ऽसिप्र. त्ययान्तोव्ययं तथाभूतः पुरःशब्दो गतिसंज्ञः स्यात् । पुरस्कृत्य । नमस्पुरसोरिति सत्वम् । अव्ययं किम् । पू: पुरी पुरः कृत्वा ॥ ___ अस्तञ्च ॥ अस्तमिति मान्तमव्ययं गतिसंज्ञं स्यात् । अ-: स्तङ्गन्य । अव्ययमित्येव । अस्तं काण्डम् । क्षिप्तमित्यर्थः ॥ __ अच्छगत्यर्थवदेषु ॥ अव्ययमित्येव । अच्छगत्य । अच्छोद्य । अभिगत्य । अभिमुखमुक्त्वा चेत्यर्थः । अव्ययं किम् । जलमच्छं गच्छति ॥ अदोनुपदेचे ॥ अदःशब्दस्त्यदादिः सोनुपदेशे गतिः स्यात् । अदाकृत्यादःकृतम् । यदा स्वयमेवेत्थं पर्यालोचयति तदेदमुदाहरणम् । अनुपदेशे किम् । परं प्रति कथने मा भूत् । अदः कृत्वा गतः ॥
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy