SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ३१६ शब्दकौस्तुमः । [१ अ. जेघीयते अधिजगे जग्ले इति त्रिविधस्यापि व्यावय॑स्यासम्भवादचीत्यस्य फलं किमिति विभावनीयं सूरिभिः । स्यादेतत् । भसेः कसौ घसिमसोहलीत्युपधालोपे कृते द्वित्वं मा भूदित्येतदर्थमज्ग्रहणं भविष्यतीति चेत् । सत्यसति वा द्वित्वे श्वानिति श्रुतौ विशेषाभावात्। ननु दुर्लक्ष्योपि विशेषः सूक्ष्मदृशं प्रति दु. वॉर इति चेन्न । दाति प्रियाणि, वीरवद्धातु, इत्यादाविव द्विवाभावसम्भवात् । वक्ष्यति हि षष्ठे लिटिधातोरिति सूत्रे, अनभ्यासग्रहणानर्थक्यं च छन्दसि वावचनादिति । न चैवमपि पाक्षिकं द्वित्वं स्यादेवेति वाच्यम् । दृष्टानाविधानस्यैव छन्दसि कर्तव्यत्वात् । अत एव हि उदित्येव सिद्धे नित्यं छन्दसीति सूत्रं निष्फलमित्यभियुक्ताः । लोके तु भाष्यमते कसु. दुर्लभः । उपधालापश्च छान्दस एव। तदेवं जेघीयते अधिजगे जग्ले इत्येतत्सिद्धये क्रियमाणमग्रहणमेवेह रूपातिदेशत्वे प्रमाणम् । कार्यातिदेशपक्षेहि घगाग्लाइत्येषामेव भाव्यं द्वित्वेनेति किं तेन । तथा च वार्तिकम् । अज्ग्रहणं तु ज्ञापकं रूपस्थानिवद्भावस्येति। देध्मीयते शाशय्यते इत्यपि जेघीयते इत्यनेन समानयोगक्षेममुदाहरणम् । ईघाध्मोरिति ईकारः। अयङ्यिङितीति शीडोयङादेशः । अचीत्यस्य प्रत्याख्यानपक्षे तु लक्ष्यानुरोधादेव शब्दाधिकारमाश्रित्येह रूपातिदेशो व्याख्येयः । पूर्वसूत्रादच इ. तिषष्ठयन्तस्यानुवृत्तिरिह किमति चेत् । शुशुवतरित्यादिसिद्धये इति गृहाण । तथाहि । विभाषाश्वेरिति सूत्रं यद्यपि शुशावेत्यादौ पित्सु सावकाशं तथापि शून इत्यादौ चरितार्थस्य वचिस्वपीत्यस्य बाधकमेव परत्वात् । लिव्यभ्यासस्योभयेषामित्यस्य तु न बाधकम् श्वयत्यम्यासविषयकस्य विधोर्नरवकाशत्वात् । अत एव विभाषाश्वेरिति सूत्रे श्वोर्लिट्यभ्यास.
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy