SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ १ पा. ८ आ. शब्दकौस्तुभः । लक्षणप्रतिषेध इति वार्तिकमारब्धम् । लिव्यभ्यासस्येति सूत्रे अश्वयतीनामिति पूरणीयामिति तदाशयः । अन्यथा हि विहितप्रतिषिद्धतया विकल्पात् शुश्वाय शुश्वियतुरित्यनिष्टमपि पक्षे प्रसज्येत । एवं स्थिते द्विवचनेचीत्यत्राच इत्यस्याननुवृत्ती शुशावत्यत्र वृद्धयावादेशयोरिव सम्प्रसारणस्यापि स्थानिवद्भावः स्यात् । तथा च शिशाव शिशुवतुरित्याद्यनिष्टमापद्येत । न च सम्प्रसारणं तदाश्रयं च बलवदिति तिबाद्यवस्थायामेव सम्पसारणप्रवृत्तेरचीति नास्तीति वाच्यम् । एवमपि व्यतिशुशुवाते इत्यादौ दोषध्रौव्यात् । न च विभाषाश्वेरिति लावस्थायामेव प्रवर्ततइति वाच्यम् । एवमपि ईजाते ईजाथे इत्यादौ दोषतादवस्थ्यात् । लावस्थायां कित्त्वाभावन तत्र सम्प्रसारणाप्रवृत्तेः। न च कित्त्वमपि प्रवर्त्ततामिति वाच्यम् । अन्तरङ्गैस्तिबादिभिर्बाधितत्वात् । किं च स्वापेश्वङीति सम्प्रसारणे असूषुपदितीष्यते । स्थानिवद्भावे तु सति नसंप्रसारणइति निषेधाद. भ्यासे उवर्णो न श्रूयेतेति दिक् । तन्त्रावृत्त्यैकशेषाणामन्यतमाश्रयणादिह कालावधारणमपि क्रियते । तथा च व्याख्यातम् । द्वित्त्वे कर्तव्ये इति । तेन चक्रतुरित्यादावुत्तरदले पुनर्यथायथं यणादयो भवन्त्येव । अन्यथा प्रकृतिभाव एव स्यात् । निन्य. तुरित्यत्र तु प्रथमप्रवृत्तस्यापीयङो द्वित्वकाले ऽपहारात्पुनः प्रासो ऽप्ययमेरनेकाच इति यणा बाध्यते । यद्वा । पूर्वमपीयङ् न प्रवर्तते । प्रकल्प्य चापवादविषयं तत उत्सर्गोभिनिविशतइति न्यायात् । यद्वा ।आभीयत्वेनेयङो ऽसिद्धत्वाद् यण भविष्यति । स्यादेतत् । स्थानिवद्ग्रहणं निवर्त्य नवं चानुवर्त्य द्वित्वनिमित्ते ऽचि अच आदेशो न स्याद् द्वित्वे कार्ये इत्येव व्याख्यायताम् । एवं हि सति स्थानिवदिति शब्दाधिकारक्लेशोपि न भव
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy