SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ४२० शब्दकौस्तुमः । [१ अ० . पातस्यानर्थकस्य प्रातिपदिकसंज्ञा वक्तव्या येषां घोत्योप्यों : नास्ति तदर्थमिदम् । अवधति । अनुक्तसमुच्चयार्थाच्चकारात्सिदमिदम् । अनुकरणेषु तु अनुकरणेन सहाभेदविवक्षायामर्थववाभावान प्रातिपदिकता, भूसत्तायामिति यथा । भेदविवक्षायां तु संज्ञा स्यादेव । भुवोवुगिति यथा । न चाधातुरिति पयुदासापत्तिः । प्रकृतिवदनुकरणमित्यातदेशस्यानित्यतयोवङशे प्रवृत्तावपि संज्ञांशे अप्रवृत्तिसम्भषात् । एतच्च ऋलकसूत्रे उपपादितम् ॥ हुस्खो नपुंसके प्रातिपदिकस्य ॥ क्लीवे प्रातिपदिकस्याज- . न्तस्य हूस्वः स्यात् । श्रीपं कुलम् । प्रातिपदिकग्रहणसामर्थ्यानेह । काण्डे । कुड्ये । इह त्वन्तादिवच्चेत्यतिदेशेनास्ति प्राप्तिः । न च द्विकपक्षे वारिणीइति व्यावर्त्य कृतार्थतोत वाच्यम् । तत्रापि प्रातिपदिकमित्यस्यानुवृत्या सिद्ध सामर्थ्यस्य सुवचत्वात् । लक्ष्यानुरोधेन पक्षान्तरस्यैव सुग्रहत्वाच्च । यद्वा कार्यकालपक्षं प्रत्ययान्तस्य नेति प्रसज्यप्रतिषेधं चाश्रित्य समाधेयम् । न चैवं ब्रह्मबन्धुरित्यत्र स्वादयो न स्युरिति वाच्यम् । लिङ्गविशिष्टपरिभाषया श्वश्रूरित्यत्रेव तत्सिद्धेः॥ ___ गोस्त्रियोरुपसर्जनस्य ॥ उपसर्जनं यो गोशब्दस्तादृगेव च यत्स्त्रीप्रत्ययान्तन्तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात् । चित्रगुः । निष्काशाम्बिः । उपसर्जनस्य किम् । सुगौः । राजकुमारी। स्त्रीशब्दः स्वर्यते । तेन स्वयधिकारोक्तप्रत्ययग्रहणानेह । अतिलक्ष्मीः । अतिश्रीः । कथं गोकुलं राजकुमारीपुत्र इति चेत् । शृणु । उपसर्जनस्य ससंबन्धिकतया यस्य प्रातिपदि. कस्य इस्वो विधीयते तदर्थ प्रति यद्युत्तरपदभूतयोर्गोस्त्रियोर्गुणीभावस्तदेदं इस्वत्वम् । न चेह तदस्ति । गोः कुलं
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy