SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ २ पा. २ आ. शब्दकौस्तुभः । ४२१ प्रति गुणीभावेपि गां प्रत्यतथात्वात् । कुमार्याश्च पुत्रं प्रति गुणीभावपि राजानं प्रत्यतथात्वात् । शास्त्रीयं चेहोपसर्जनं गृह्यते । कृत्रिमत्वात् । अत एव प्रत्ययमात्रस्य तथात्वासम्भवात्तदन्तलाभः । यदि तु लौकिकमुपसर्जनत्वं गृहीत्वा प्रत्यय एव विशेष्येत तदा हरीतक्याः पलानि हरीतक्य इत्यत्रातिव्याप्तिः स्यात् । स्पष्टञ्चेदमुपमानानिसामान्यवचनैरिति सूत्रे भाष्ये । अथ कथं राजकुमारीमतिक्रान्तोतिराजकुमारिति । अनुपसर्जने स्त्रीप्रत्यये तदादिनियमो नेत्युक्ततया राजकु. मारीशब्दस्य स्त्रीप्रत्ययान्तत्वादित्यवेहि । अतिक्रान्तम्प्रति ह्यसावुपसर्जनं न तु राजानम्प्रतीति विवेकः । अत्रत्यः कैयटस्त्वापातत इत्यवधेयम् । अत्र वार्तिकम् । ईयसो. बहुव्रीहौ पुंवदचनमिति । ईयसन्ताद्यः स्त्रीप्रत्ययस्तदन्तान्तो यो बहुव्रीहिस्तत्र इस्वो नेत्यर्थः । गोस्त्रियोरिति इस्वो विहितः। तत्र पुंसि यथा स्त्रीप्रत्ययान्तता नास्ति तथेह बोध्यमित्येवं वचनव्यक्तया ह्रस्वाभावः पर्यवस्यति । बव्हयः श्रेयस्यो यस्य स बहुश्रेयसी । ईयसश्चति कनिषेधः । बहुव्रीहौ किम् । अतिश्रेयसि ॥ लुक्तद्धितलुकि ॥ तद्धितलुकि सति उपसर्जनस्त्रीप्रत्ययस्य लुक् स्यात् । लुक् तावत्प्रत्ययस्यैव सम्भवति । न तु तदन्तस्य । अत एवोपसर्जनमिह लौकिकम्, न तु पूर्ववच्छास्त्रीयम् । असम्भवात् । न हि प्रत्ययमात्रं शास्त्रीयमुपसर्जनम् । आमलक्याः फलमामलकम् । नित्यंवृद्धशरादिभ्य इति मयटः फले लुक् । ततोनेन गौरादिङीषो लुक् । इह पूर्वसूत्रस्यावकाशो निष्कौशाम्बिः । अस्यावकाश आमलकम् । पञ्च इन्द्राण्यो देबता अस्य पञ्चेन्द्र इत्यत्र तु परत्वाल्लुगेव ॥
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy