________________
१ पा. ५ आ. शब्दकौस्तुभः ।
१७५ शेऽनुनासिको यण स्यात् । तथा चेष्टरूपत्रितयमध्ये ऊँ इतीत्येकमेव सिद्धं न त्वपरं द्वयमित्यव्याप्तिः । अतिव्याप्तिश्च सानुनासिकवकारयुक्तस्यानिष्टस्यापि प्रसङ्गात् । अथ प्रगृह्यग्रहणमात्रमनुवर्तत तदा प्रगृह्यस्योको नित्यमादेशः स्यात्ततश्च विति ऊँ इतीति द्वे एव रूपे स्यातां न तु उइतीति तृतीयम् । अथ शाकल्यग्रहणमात्रमनुवर्तेत सत उमात्रस्यादेशविकल्पना, इति उइतीति द्वयं प्रगृह्यस्य । विति वितीति द्वयमप्रगृह्यस्येति संकलनया रूपचतुष्टयं स्यात् । तत्र त्रितयस्येष्टत्येपि सानुनासिकवकारयुक्तमनिष्टमापतति । तस्माच्छाकल्यग्रहणं प्रगृह्यग्रहणं चत्युभयमनुवर्ततइत्युक्तम् । इह विभक्तिविपरिणामेन प्रगृह्यस्योत्र इति व्याख्यातम् । आदेशसामानाधिकरण्येन प्रगृह्यं ऊँ इत्येतदादेशो भवः।ति व्याख्यानेपि न कश्चिद्विशेष इत्यवधेयम् । ननु परिनिष्ठितमेव प्रयोगाई, परिनिष्ठितत्वं च अप्रवृत्तनित्यविध्युद्देश्यतावच्छेदकानाक्रान्तत्वम् । निहते तिङतादावव्याप्तिवारणायामवृत्तेति, वैकल्पिकेडागमाद्देश्यतावच्छेदकाकान्ते सेद्धत्यादावव्याप्तिवारणायोक्तं, नित्यति । अत एव पच् लट् इत्यादीनामलौकिकतेति सिद्धान्तः । तथा च उ इतीत्येतद्पं न स्यादेव । अत्र हि शाकल्यमते ऊँआदेशेन भाव्यमेव । इतरेषां मते तु प्रगृह्यत्वमेव नास्तीति चेत् । भवेदेवं यदि शाकल्यग्रहणं यथाश्रुतं स्यात् । तत्तु विकल्पमात्रतात्पर्यकम् । तथा च भाष्यम् । शाकल्यस्य विभाषा यथा स्यादिति ऊंवा शाकल्यस्येति च । तथाच तत्र कैय्यटः । शाकल्यश्रुतेरेव फलं वाग्रहणेन प्रतिपादयतीति स्मृत्यन्तरानुसन्धानद्वारेण विभाषा सम्पद्यतइति च । यद्वा । अस्तु शाकल्यग्रहणं यथाश्रुतम् । तथापि निपातएकाजित्यनेनैव सिद्धे उअ इति तावनियमार्थम् ।