________________
३ पा. २ आ.
शब्दकौस्तुमः ।
४९५
प्रतीते । स्वरितवित इत्यादि पञ्चमूच्या यदात्मनेपदं विहितन्तत् क्रियाफलस्य कर्तृगत्त्वे उपपदे न धोतिते न प्राप्नोति । उक्तार्थानामप्रयोगात् । तत्राप्राप्तीवभाषेयम् । उपपदं चेह समीपे श्रूयमाणं पदं न तु पारिभाषिकम् । असम्भवात् । इह च पञ्चमूत्री अनुवत्तते । स्वं यज्ञं यजति यजते वा। स्वं कटं करोति कुरुते वा । स्वं पुत्रमपवदात अपवदते वा । स्वं व्रीहिं संयच्छति संयच्छते वा । स्वाङ्गां जानाति जानीते वा॥
शेषात्कर्तरि परस्मैपदम् ॥ आत्मनेपदानमित्तहीनाद्धातोः कर्तरि परस्मैपदं स्यात् । याति वाति । कथं तार्ह स्मरानो जुव्हानाः सुरभिघृतधाराहुतिशतैरिति सौन्दर्यलहरी । सत्यम् । नायं शानच् किन्तु चानश् । एतेन रसमानसारसेनेतिमाघो व्याख्यातः॥ - अनुपराभ्यां कुत्रः ॥ आभ्यां कुत्रः परस्मैपदं स्यात् कर्तृगेपि फले गन्धनादावपि । अनुकरोति पराकरोति । ननु कर्मकर्तर्यपि प्राप्नोति । अनुक्रियते स्वयमेवेति । नैष दोषः । कार्यातिदेशपक्षे कर्मवत्कर्मणेत्यात्मनेपदेन परेणास्य बाधात् । शास्वातिदेशे तु भावकर्मणोरित्यस्य पूर्वत्त्वात्परणानेन यद्यपि भाव्यं तथापीह कर्तरिकर्मेत्यतः शेषात्कर्तरीत्यतश्च कर्तृग्रहणद्वयमनुवर्तते तेन कतैव यः कर्ता तत्रायं विधिन तु कर्मकर्तरीति बोध्यम् ॥ ___ अभिप्रत्यातिभ्यः क्षिपः ॥ क्षिप प्रेरणे । स्वरितेत् । अभिक्षिपति । प्रतिक्षिपति । अतिक्षिपति । एभ्यः किम् । आक्षिपते । कर्तरीत्येव । नेह । आक्षिप्यते सूत्रम् । द्वितीयकर्तृग्रहणानुवृत्तेः कर्मकर्त्तयपि न ।।
प्राद्वहः ॥ वह पापणे स्वरितेत् । पाहति । प्रात्किम् ।