SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ १ पा. ७ आ. शब्दकौस्तुमः । . २४९ नुकरणं तस्य अः परः । नुश्च नरस्यवति इन्दः । चागणे प्राठाच्च डीन् । यद्वा । स्थानेन्तरतम इत्यत्र तन्त्रेण द्वेधा छेदः सूकृतः सम्मतः भाष्योक्तरीत्या लौकिकन्यायाश्रयणने सूत्रप्रत्याख्यानपक्षोप हि प्रकृतित आदेशतश्चेत्युभयथाप्यन्तरतमनिवृत्ति रस्त्येव । सूत्रकृतो मते वाचनिकी सा । भाष्यकृतस्तु न्या. यसिद्धेत्यन्यदेतत् । तथा च वान्तो यि नृनरयोरित्यादि सर्व . मुस्थमेव । अत एव चतुर्थे स्थानितोन्तरतमनिवृत्तिमाश्रित्य नारीति रूपं साधयन्हरदत्तोपि न विरुध्यते । इको यणचीत्यादावतिप्रसङ्गः परमवशिष्यते । स च त्वादिभ्यः प्वादीनां हस्व इत्यादिज्ञापकेन वाचनिक्या न्यायमूलिकाया वा स्थानितोन्तरतमानिवृत्तेरनित्यतामाश्रित्य परिहर्त्तव्य इति दिक् । सूत्रप्रत्याख्यानप्रकारस्तूच्यते । सभायामास्यतामित्युक्ते हि पण्डिताः पण्डितैः सह समासते, शूराः शूरैः, कवयः कविभिः,न तु सङ्करेण । किं बहुना गवां सधं प्रति गौर्धावति, अश्वो ऽश्वानामित्यादिव्यवस्था तिर्यक्ष्वपि दृश्यते । तस्मात्पथमवाक्यार्थस्य लोकत एव लाभान तदर्थ सूत्रमारम्भणीयम् । एवं स्थानत आन्तर्य बलीय इत्यपि लोकत एव सिद्धम् । तथाहि । भूयः सहचरितयोरश्वयोर्गवोर्वा सजातीयान्तरसंबलने सत्यपि कृशत्वपाण्डत्वादिगुणसदृशानपि हित्वा स्थानसाम्यपुरस्कारेणैव परस्परापेक्षा दृश्यते । तदेवं लोकतः सिद्धे किं वचनेनेति ॥ उरण रपरः ॥ ऋवर्णस्य स्थाने यो ऽण् स प्रसङ्गावस्थायामेव रप्रत्याहारपरस्स्यात् । ऋकारेण सावात्रिंशत उपस्थाने सति स्थानेंतरतमपरिभाषया रश्रुतिमतः स्थाने रपरो लश्रुतेस्तु लपर इति विवक्तव्यम् । कृष्णद्धिः, तवल्कारः, ऋलस्थाने
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy