SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २५० 'शब्दस्तुभः । [ १ अ० यो ऽण् इति ग्रन्थस्तु यथासंख्यभ्रमापादको संगतश्च । शब्दतः साम्येनाभिमता निर्वाहात् । न हि सूत्रे शब्दद्वयमस्ति । अर्थतस्तु नतरां साम्यम् । अथात्र न यथासंख्यमभिमतं तार्ह किं वृत्तिमध्ये द्वयोरेव विशिष्योल्लेखनेन । आ च आ च रलौ ऋलोः स्थानमिति विग्रहे उश्च उल् च ऋलोरिति विग्रहे वा द्वन्द्वस्य दुलभत्वाच्च । स हि विरूपाणामपि समानार्थानामित्येकशेषेण बाध्यते । चित्रगुशब्दस्य चित्रगवी परतायामिव साधुत्वनिर्वाहार्थं लक्षणामाश्रित्य लक्षितलक्षणया शक्यार्थे पर्यवसानमिति कथं चिन्निर्वाहस्तु ग्रन्थे श्रद्धालुभिरास्थेय इति दिक् । अत्र पक्षचतुष्टयं सम्भाव्यते । उः स्थाने रपरो ऽण् स्यादिति रपरत्वः विशिष्टो ऽण् विधीयतइति प्रथमः पक्षः । उः स्थाने अणामनणां च प्रसङ्गे अणेवेति नियमः । स च रपर इति वाक्यभेदे - न रपरत्वं विधीयतइति द्वितीयः पक्षः । उः स्थाने योणित्यनू - द्य तस्य रपरत्वं विधीयतइति तृतीयः । प्रसंगावस्थायामेव रपरत्वं विधीयतइति चतुर्थः । तत्राद्ये पक्षे नामाप्तेषूदात्तादिषु विधीयमानोण् तेषां बाधकः स्यात् । तैरनवरुद्धस्य विषयस्या - लाभात् । एवं तदा वचनव्यक्तिः । षष्ठीनिर्दिष्टमात्रस्य भवन्नादेशोन्तरतमः स्यात् । ऋवर्णस्य त्वण् रपर इति । ततश्चोदात्तानुदात्तस्वरितानुनासिकेषु दोषः । तथाहि । कृतिरित्यत्र नित्यादिर्नित्यमिति प्राप्तम् ऋकारं बाधित्वा ऽण् रपरः स्यात् । तथा प्रकृतं प्रहृतमित्यत्र गतिरनन्तर इति पूर्वपदप्रकृतिस्वरे कृते शेषनिघातमुदात्तादनुदात्तस्येति स्वरितं च बाधेत । तथा नृपाहीत्यत्र नृपइति ज्ञापकात्पूर्वसवर्णदीर्घसंभवेप्यनुनासिकं बाविस्वा ण् रपरः स्यात् । किञ्च कर्त्ता कारक इत्यत्र गुणवृद्धी बाधित्वान् भवन्नकार एवेति नियमाभावात् कदा चिदिकार उ
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy