SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ४१८ शब्द कौस्तुभः । [ १ अ० च्यम् । अर्थवग्रहणानुवृत्तेरुक्तत्वात् । असमर्थानां तर्हि कथं संज्ञेति चेत्, धर्मिग्राहकमानादेवेति गृहाण । असूर्यललाटयोरित्यादिना हि समासउपपदे क्रुद्विधीयते । उपपदञ्च महासंज्ञाकरणबलाद्विभक्तयन्तमेव । न चैत्रमपि स्त्रीप्रत्यये तदादिनियमाभावाद्राजकुमारीत्यादौ प्रत्ययान्ते विध्यर्थं तदिति वाच्यम् । अन्तरङ्गस्यापि हल्ङयादिलोपस्य लुग्विषये प्रवृत्त्या श्रूयमाणएव सुपि समासप्रवृत्तेः । अत एव गोमत्प्रिय इत्यादौ नुमादयो नेति वक्ष्यते । तस्मात्प्रकृते समासग्रहणं नियमार्थ सद्वाक्यस्य संज्ञां निवर्तयतीति स्थितम् । नियमश्च सजातीयापेक्षः । यत्र पूर्वो भागः पदमुत्तरच प्रत्ययभिन्नः तादृशस्य समुदायस्य चेस्स्याचा समासस्यैवेति । षड्विधेपि समासे पूर्वभागस्य पदत्वाव्यभिचारात् । तेन बहुच्पूर्वस्यास्त्येव संज्ञेति बहुपटव इति टकारस्योदात्तता लभ्यते । प्रथमस्य जसो लुकि चितः प्रकृते व्हर्थमिति चित्स्वरे कृते पुनर्विभक्त्युत्पत्तेः । अन्यथा तु जसेोदात्तः स्यात् । उत्तरथेत्यादि किम् । हरिष्वित्यादेरनेन व्यावृत्तिर्मा भूत् । एवमस्तु, को दोष इति चेत् । गृणु । तथासति जन्मवानित्यादौ तद्धितान्ते विध्यर्थं तद्धितग्रहणं स्यात् राजानावित्यादेस्तु प्रातिपदिकस्वं केन वार्यताम् । • न तावदनेन नियमेन, पूर्वभागस्यापदत्वात् । नापि तद्धितग्रहन तस्योक्तरीत्या नियमार्थत्वायोगात् । न च सुपोधानुप्रातिपदिक्रयोरिति धातुग्रहणं प्रत्ययान्तानां प्रातिपदिकसंज्ञा नेति ज्ञापकमिति वाच्यम् । तस्य प्रासादयितीत्यादौ हरिष्वितिवदप्रातिपदिके चरितार्थत्वात् । नापि ङचाब्ग्रहणं ज्ञापकम् । लिविशिष्टपरिभाषया सिद्धौ तस्यान्यार्थताया एव सिद्धान्तयिष्यमाणत्वात् । तस्मादुक्तमेव साधु । यद्यपि प्रकृतिप्रत्ययभा -
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy