________________
१.पा. ८ आ.
शब्दकौस्तुभः ।
स्वस्य पिति कृतीति तुक् । अद्यतनम् । तद्धितत्वात्तदन्तत्वप्रयुक्ता प्रातिपदिकसंज्ञा । कदश्वः । स्थानिवद्भावेनाव्ययत्वादव्ययपूर्वपदप्रकृतिस्वर इत्याहुः । तच्चिन्त्यम् । स्थानेन्तरतमपरिभाषया गतार्थत्वाम् । अधोध इति तूदाहरणमाष्टमिकद्वित्वस्य स्थाने द्विर्वचनरूपत्वात्संभाव्यते किन्तु तत्रापि फलं दुर्वचम् । तस्मादधोधःकाम इत्युदाहार्यम् । अतः कृकमीति प्राप्तस्य सस्वस्याव्ययत्वात्पर्युदासः । यत्तु वृत्तौ प्रस्तुत्येत्यव्ययादेशोदाहरणम् | तच्चिन्त्यम् । क्त्वामात्रस्यानव्ययत्वात् । तदन्तविधेः सर्वैकवाक्यतया सिद्धान्तितत्वात् । न च जहत्स्वार्थायां वृत्तौ क्त्व आ नर्थक्यात्सर्वे सर्वपदादेशा इत्यभिप्रायेणेदमिति वाच्यम् । हूस्वस्य पिति कृतीति तुगभावापत्तेरिति दिक् । सुप् । रामाय | तिङ् | अपचताम् । तिङन्तत्वात्पदत्वम् । वः, नः । पदत्वादुत्वादि । नन्वेवमध इत्यस्यापि पदादेशत्वादेव गतार्थतेति चेत्सत्यम् । गोवलीवर्दन्यायेनाव्ययग्रहणादिति दिक् । इहकाभ्यामित्यादावादेशः कार्यं लभते केन कैरित्यादौ तु परस्य प्रवर्तयतीति विवेकः । ननु वत्करणं मास्तु, स्थान्यादेश इत्येतावताप्यसंयोगाल्लिट् किदित्यादाविव वत्यर्थलाभात् । यदाहुः । परत्र परशब्दः प्रयुज्यमानो विनापि वर्ति वत्यर्थे गमयतीति । न च स्थानी आदेशं प्रतिपद्यतइत्येव वाक्यार्थः किं न स्यादिति वाच्यम् । तत्तदादेशविधायकैरेव गतार्थत्वात् । न चादेशः स्थानिरूपमापद्यते । वचनद्वयप्रामाण्याच्च विकल्प इति वाच्यम् । वा लिटीत्यारम्भात् । न च चक्षिङः ख्याम् आदेशः स्थानीति वचनद्वयप्रामाण्यात्सर्वत्र विकल्पापत्तौ लिव्येवेति नियमार्थं तत्स्यादिति वाच्यम् । एवमपि विभाषा लुङ्लुङोरित्याद्यप्राप्तविभाषासु वाग्रहणवैफल्यापत्तेः । अस्तिभूभ्यां रूपद्वयसि -
२५९