________________
१ पा. ५ आ. शब्दकौस्तुमः ।
१९५ ति स्थितम् । तथा सप्तमे योगविभागं कृत्वा तद्बलेनापि द्वधा भाष्ये समाहितम् । तथाहि । षड्भ्यो लुगित्यत्र षड्भ्य इति विभज्यते अष्टाभ्य औशिति सूत्रादष्टाभ्य इत्यनुवर्तते । तेन पड्भ्यो यदुक्तं कृताकारादष्टनोपि तत्स्यादिति सूत्रार्थः । न चैवं जश्शसोलगप्यतिदिश्यतेति वाच्यम् । औश्त्वविधिवैयर्थ्यांपत्तेः। अथ वाष्टन आ विभक्तावित्यस्मादनन्तरं राय इति योग विभज्य हलीत्युभयोर्योगयोः शेषो व्याख्येयः । तेनाष्टानामित्यत्र नुटः पश्चादेवात्वं न तु ततः प्राक् । न चैवं जश्शसोरात्वं न स्यादिति वाच्यम् । लाघवार्थमष्टभ्य इति निर्देष्टव्ये ऽष्टाभ्य औशति कृतात्वनिर्देशेन जश्शसोर्विषये आत्वानुमानात् । यत्रात्वं तत्रैवौश्त्वं यथा स्यादित्येतदर्थ हि तत्र दीर्घोच्चारणं कृतमिति । स्यादेतत् । हलीति यद्युभयोः शेषस्तर्हि प्रियाष्टन्शब्दे
औजसमौट्शस्टाङसिङसोसाम्ङयोस्सु वैकल्पिकतयेष्यमाणमात्वं न सिद्धयेत् । न च तत्रात्वं नेष्यतएवेति वाच्यम् । इतःपाचीनपक्षाणामतिव्याप्तिप्रसङ्गात् । तेषु ह्यात्वं प्राप्यतएव विभक्तिमात्रे तद्विधानात् । न च षड्भ्यो लुक् पट्चतुर्यथेति सूत्राभ्यां विधीयमानौ लुग्नुटौ यथा गौणतायां न स्तस्तथात्वमपि न स्यादेवेति वाच्यम् । वैषम्यात् । लगनुटगोविधौ हि षड्भ्य इति पदचतुर्थ्य इति बहुवचननिर्देशात् षडर्थमाधान्यएव तौ प्रवर्तते । आत्वविधौ स्वष्टन इत्येकवचननिर्देशाद्रौणेपि प्रियाष्टाभ्यामित्यात्वं प्रवर्त्ततएव । पदाङ्गाधिकारे तस्य तदुत्तरपदस्य चेति वक्ष्यमाणत्वात् । न च जश्शसोरष्टाभ्य औशिति कतात्वनिर्देशेनानुमीयमानमात्वं केवले प्राधान्ये चाष्टौ परमाशावित्यत्र यथा भवत्येवं गौणत्वेपि भविष्यतीति तदंशे नानुपप. त्तिरिति वाच्यम् । औरत्वं हि लुग्नुयाविव गौणत्वे न भव.